________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
राज्यं तु शुद्धाऽऽत्मनि सत्यमस्ति, त्वं सर्वनीत्या कुरु सर्वकार्यम् । मा रक्षय त्वं परमाणुकांक्षा, त्वं स्वादया:ऽत्मानुभवस्य सौख्यम् ॥ ३० ॥ उद्धारयाऽऽत्मान मिहात्मना त्वं, रागं कुरु स्वाऽऽत्मनि पूर्णपूर्णम् । अहंत्ववृत्त्याऽस्ति तु कर्मबन्धो-.. निर्मोहतः स्यादविनाश आत्मा ॥ १ ॥ कालत्रयेऽप्यस्ति स नित्य आत्मा, स्वाऽऽत्मा चिदानन्दमयः पवित्रः। एवं त्वमाऽऽत्मानमवेहि बन्धो, स्वतःस्वमुडारय भारतेश ॥ ३२॥ पूर्णश्चिदानन्दमयः पवित्रो, देहोऽस्त्यनित्यःखलु वस्त्रतुल्यः । स्वकर्मरूपं नच पश्य अप, भ्रान्त्या च कर्मादिकमत्र पश्य ॥३३॥ भ्रान्तौ गतायां स्वयमस्त्यबन्धः कर्मादिकानां न भवेचबन्धः। मोहो महीयान् खलु कर्ममूलं, भ्रान्तो गतायां न भवेद्ममश्च ॥ ३४॥ मोहे विनष्टे खलु शुद्धआत्मा, बुद्धोजिनोऽहन्प्रभुरस्ति साक्षात् । लिङ्ग न जातिर्भवदाऽऽत्मनोऽस्ति, सर्वस्य विश्वस्य परेश्वरोऽस्ति ॥ ३५ ॥
For Private And Personal Use Only