________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा
.
૧૦૮ पृथक् चल त्वं व्यवहारनीत्या, निर्लेपतश्चाऽऽत्मनि मोदमानः । प्रवर्तते स्वाऽऽत्मनि सर्वधर्मोनिर्लेपतः कर्म कुरुष्व सर्वम् ॥ १८ ॥ विनाऽऽत्मना नास्ति जडेन शान्तिमिथ्याभ्रमं वारय सर्वमेतम् । न त्वं प्रमादी जडपर्यवे स्यागर्वी नवा स्या धनसत्तया त्वम् ॥ १९॥ सम्बन्धिनो ये स्वजनाश्च वर्गानरान्स्त्रियः पश्यसि यांस्त्वमित्थम् । पर्यायतस्ते परिवर्तमानामुह्यन्ति नो ज्ञानिजनाश्च तत्र ॥ २० ॥ त्वमाशु हे श्रेणिक चेत चेत, काल स्ववेगं शिरसि प्रदत्ते । कालोऽपि नाऽऽत्मानमहो भुनक्ति, स्यादाऽत्ममोदेन सुखं यथार्थम् ॥ २१ ॥ आत्मा स एवास्ति जिनः पराऽऽत्मा, दीनं निजं मानय मा कदाचित् । आत्मा त्रिलोकस्य परेश्वरोऽस्ति, स्वान्ते परेशं प्रविलोकय त्वम् ॥ २२ ॥ स्याद् द्वेषरागप्रशमेन बुद्धः शुद्धो भवेत्सत्यमयं निजाऽऽत्मा । विनाऽऽत्मना न त्वमसि द्वितीयः प्रेम्णेतिवाक्यं मम मानय त्वम् ॥ २३ ॥
For Private And Personal Use Only