________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मोपयोगसामर्थ्या, दाऽऽत्माऽनन्तबलीभवेत् । अनेकलब्धिसम्पन्नो, भवत्येवनसंशयः ॥१०६॥ मंत्रयंत्रमहातंत्र-बलमाध्यात्मिकमहत्, आत्मन एव बोडव्य,-मतआत्मैव शक्तिमान् ॥१०॥ स्थिरोपयोगतः स्थेय, मात्मन्येवाऽऽत्मना स्वयम् प्रतिक्षणंनिजध्यान, कर्तव्यं स्थिरदीपवत् ॥१०८॥ रागद्वेषनिरोधाख्यो, योगोमोक्षप्रदायकः मनोवाकाययोगानां, व्यापारो योग एवसः ॥१०९॥ यमानांनियमानांव, योगत्वमासनस्यच, प्राणायामस्थयोगत्वं, ज्ञेयंनिमित्तहेतुतः ॥११०॥ प्रत्याहारस्य योगत्वं, धारणाथाश्वसम्मतम् ध्यानान्तरसमाधेश्व, योगत्वमुपयोगिनाम्. ॥११॥ सम्यग्दृष्टिमनुष्याणां-योगा मोक्षस्यहेतवः मिथ्याइष्टिमनुष्याणां, स्वर्गादिभवहेतवः ॥११२॥ दर्शनज्ञानचारित्र-तपोयोगो विवेकिनाम् ; उपादाननिमित्तास्ते, योगाःसम्यग्दृशांशुभाः॥११३॥ त्यागिनांचगृहस्थानां, व्रतादीनांसुयोगता, स्वाधिकारेणधर्मस्य, साधकाउपयोगिनः ॥११४॥ आन्तराबाह्ययोगाये, विचाराचारभेदतः सम्यग्दृशांचमोक्षार्थ, सन्तिसापेक्षवाइतः ॥११५॥ असंख्यामोक्षपन्थानः परब्रह्मप्रदायकाः सम्भूयसर्वयोगास्ते, साम्ययोगे मलन्तिहि ॥११६॥ शुद्धोपयोगसंप्राप्तौ, नान्ययोगप्रसाधनम् आत्मस्मृतिप्रवाहेण, वृत्तिरन्तर्मुखा सदा ॥११७॥
For Private And Personal Use Only