________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११.
शुद्धात्मसंस्मृतिश्चैव, शुद्धोपयोग उच्यते. औदयिकमनोवृत्ति-निरोधस्तुततोभवेत् ॥११८॥ आर्तध्यानविचाराणां, संरोधउपयोगतः रौद्रध्यानविचाराणां, रोधः शुद्धोपयोगतः ॥११९॥ धर्मध्यानविचाराणां, प्राकट्यमुपयोगतः शुक्लध्यानसमुत्पादः श्रुतज्ञानोपयोगतः ॥१२०॥ पिण्डस्थंचपदस्थंसद्-ध्यानंशुद्धोपयोगतः रूपातीतंचरूपस्थं, ध्यानंशुद्धोपयोगता.. ॥१२१॥ शुद्धाऽऽत्मनोविचाराणां, मताशुद्धोपयोगता, आत्मशुद्धिकराः सर्वे, विचारा योगरूपिणः ॥१२२॥ सात्त्विकाऽऽहारबुद्धीनां, सात्त्विककर्मणांतथा, सात्त्विज्ञानभक्तीनां, हेतुतास्वाऽऽत्मशुद्धये ॥१२३॥ आत्मशुद्धोपयोगेन, सर्वसम्यविमुक्तये, जायतेकर्महेतूनां, मध्येऽपिवासिनां ध्रुवम्. ॥१२४॥ वनेनिवासिनांदुःखं, जायते ज्ञानमन्तरा, बाह्यतस्त्यागिनांमोहो, भवेद्विज्ञानमन्तरा. ॥१२५॥ इन्द्रस्थाने वनेगेहे. शुद्धोपयोगमन्तरा, आत्मानन्दोभवेन्नैव, दुःखंसर्वत्रमोहतः ॥१२६॥ चक्रिणांनसुखाऽवाप्ति, धनसत्तादिभोगतः, आत्मन्येवसुखसत्य, नान्यत्रास्तिजगत्रये, ॥१२७॥ आत्मानमन्तराऽन्यत्र, मूढा भ्रमन्ति शर्मणे, पूर्णानन्दमयस्स्वाऽऽत्मा, तत्राऽऽनन्दंप्रशोधय.॥१२८॥ देहेन्द्रियसुखभ्रान्त्या, भोगेषुभ्रमणभृशम्; केवलंदुःखभोगार्थ, ज्ञात्वाऽऽत्मनि स्थिरोभव॥१२९॥
For Private And Personal Use Only