________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वंप्रभुमयंभाव्यं, परब्रह्मानुभूतये अनुभूयपराऽऽत्मान,स्वाऽऽत्मानंभावयेत्प्रभुम् ॥१४॥ विश्वेनसार्धमात्मैक्य, मनुभूय प्रभुर्भवेत् आत्मशुद्धोपयोगेन,विश्वैक्यानुभवोभवेत् ॥१५॥ शुद्धात्मनिमनोदत्वा, नान्यत्किञ्चिद्विचिन्तयेत् यदास्थिरोपयोगीस्या, त्तदात्मेश्वरतां ब्रजेत् ॥१६॥ आत्मानमन्तरा मह्यां, किञ्चित्सारो न भासते, तदाब्रह्मानुभूत्यर्थ, योग्योभवतिमानवः ॥९॥ यदाब्रह्मानुभूयेत, पूर्णानन्दरसोदधिः तदाप्रसन्नताव्यक्तः शुडाऽऽत्माभवतिस्वयम् ॥१८॥ यदाब्रह्मरसोव्यक्तः स्यात्तदाऽऽत्मास्वयंप्रभुः नेच्छतिजडभोगान्स जडानन्दविनिस्पृहः ॥१९॥ आत्मन्येवरतिप्राप्य, स्वाऽऽत्मन्येवस्थिरोभवेत् , नामरूपेषुनिर्मोह, आयुर्योगेनजीवति ॥१०॥ प्रारब्धकर्मतो दुःखं, सुखंचवेदयनस्वयम् , आत्मोपयोगतःसाक्षी, भूत्वाजीवति भूतले. ॥१०॥ दुर्गुणव्यसनत्यागः ग्राह्यं सात्त्विकभोजनम् । सतांसंगाचचित्तस्य- शुद्ध्या ब्रह्म प्रकाशते.॥१०२॥ रागद्वेषविमुक्ताऽऽत्मा, शुद्धब्रह्मस्वयंभवेत् । देशजात्यादिनिर्मोही, व्यक्तब्रह्ममहाप्रभुः ॥१०३॥ देहाध्यासादिनिर्मुक्तो, जीवन्मुक्तोभवेज्जनः समः सर्वत्र भूतेषु, सर्वधर्मेषुचप्रभुः ॥१०४॥ व्यक्तः प्रभुर्निजाऽऽत्मैव, साम्यप्राप्य प्रजायते । वीतरागः स्वयंबुद्धः शंकरः परमेश्वरः ॥१०॥
For Private And Personal Use Only