________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९
पर्यायार्थिकतो ज्ञेयं, तदनित्यं सदा बुधैः ॥ १२ ॥
टीका - द्रवति पर्य्यायं प्राप्नोतीति द्रव्यम् । अथवा द्रूयते पर्यायैः प्राप्यते तद्द्रव्यम् । प्रथमपक्षे स्वयं द्रव्यमेव पर्य्यायादिरूपेण परिणमति दुग्धं दधिरूपेण यथा । द्वितीयपक्षे द्रव्यं तु द्रव्यक्षेत्रकालभावरूपेण समुद्रवत् सत्तामवलम्बमानमास्ते । कल्लोला इष पर्यायादय उत्पद्यन्ते विनश्यन्ति च । द्रव्यमेवार्थो मुख्यप्रयोजनं यस्य स द्रव्यार्थिकस्तं नयं श्रि वा पदसंख्याकमपि द्रव्य शाश्वतं नित्यं मतम् । (अयभावः ) मृत्तिकायां घटशरावादयो घटन्ते विघटन्ते च गुणक्रियादय उत्पद्यन्ते विनश्यन्ति च नतु मृत्तिकायाः केचिद्धानिवृद्धी जायेते । अन्यथा मूलोच्छेदाद घटादिध्वंसे जायमानानां कपालादिपर्यायानां द्रव्यान्तरत्वापत्तिरिति ।
पर्याय एवार्थो मुख्यप्रयोजनं यस्य स पर्यायार्थिकस्तस्मात् पय्र्यायार्थिकतः तानि पञ्चद्रव्याणि बुधैरनित्यानि ज्ञेयानि ( अभावः ) जलाऽऽ जिहीर्षुर्जनो घटपर्य्यायमन्तरेण नैवविकी मृदा जलमाहर्तुमीष्टे नैव च शरावमन्तरेणाऽऽच्छादनं विधातुं शक्नोति नैव केवलतन्तुभिः पटपर्य्यायमन्तरेण शीतं वायत इति सर्वत्रपययस्याप्यावश्यकता स्वर्णमानयेत्युक्तो देवदत्तः कुण्डलादिकं स्वर्णपर्यायमानयन्नैवोपालब्धव्यः ( त्वया कुडण्लमानीतं न स्वर्णमिति ) तत्रद्रव्यार्थिकनयस्य विषयत्वात् ।। १२ ।।
For Private And Personal Use Only