________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९७
प्रभु रनन्तवीर्योऽह, मष्टकर्म विनाशक बाह्यलक्ष्मी न मे किञ्चि, त्ततः किं मे सुखंभवेत्. ॥ ४२ ॥ शत्रु मित्रे समा बुद्धि, रिष्टानिष्टेषु कर्मसुः । भावितात्मा सदाकाङ्क्षी, ब्रह्मदर्शनभाग् भवेत्. ॥४३ ।। आत्मवत् सर्वभूतेषु, धर्मकार्ये कृतोद्यमः मनोवृत्तिं च संयम्य, शुद्धलक्ष्य प्रसाधकः ॥ ४४ ।। गुर्वाज्ञापारतन्त्र्येण, ब्रह्मदर्शन योग्यता; अनेकजन्म संस्कारात्, सतां सम्यक् प्रजायते. उपादान निमित्ताभ्यां, कारणाभ्यां विचक्षणः आत्मदर्शन संप्राप्त्यै, जिज्ञासु यतते ध्रुवम्. ॥ ४६ ॥ अनुभाव्यः सदात्मा वै, ज्ञानिना शान्तचेतसा; मोहमायां परिहत्य, देया दृष्टिः सदात्मनि. ॥४७॥ द्रव्याथिकनयं श्रिवा, नित्यात्मा कथ्यते जिनैः पर्यायार्थिकतोऽनित्य, आत्मा ज्ञेयो विचक्षणः ॥४८॥ जीवाः संसारिणो मुक्ता, अनन्ता भाषिता जिनैः प्रतिशरीरं भिन्नास्ते, आत्मानः कृतकर्मतः अनाधनंतका जीवाः कर्माहत्ता भ्रमन्ति वै; यदा कर्मविमुक्तास्ते, मुक्ताः सिद्धाः शिवालये. ॥५०॥ यः कर्ता कर्मणामात्मा, हर्ता स जीव उच्यते; कताहता स्वयश्चात्मा, नान्यः कोऽपि परः प्रभुः ॥५१ ।। कर्मपङ्कविनिर्मुक्त, इश्वरो हंस उच्यते, जगत्का न स ज्ञेयो, मोहेच्छाऽभावतः प्रभुः ॥५२ ।।
For Private And Personal Use Only