________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३१॥
२९६ पौद्गलिकेषु भावेषु, रागद्वेषौ परित्यजन् ; अन्तरात्मान यो मनः परात्मानं स पश्यति. मनोवाकाययोगानां, क्रियासु न ममत्ववान ; सावधयोगसंहर्ता, परात्मानं स पश्यति. क्षयोपशमज्ञानेन लीनो यः परब्रह्मणि; समभावं परं प्राप्य परात्मानं स पश्यति. पदार्था रूपिणो दृश्या, इन्द्रियै रुक्तमाकरे; पञ्चेन्द्रियैस्तु न ग्राह्य, आत्मा च मनसाऽपि वै. अरूपिणाऽत्मबोधेन, साक्षादात्मानुभूयते; अहं मुखीति यज्ज्ञानं, ताद्धि दर्शनमात्मनः अनुभवेन तथ्येन, प्रत्यक्ष श्चेतनः स्वयम् ; आत्मनोऽनुभवं प्राप्य, पक्वश्रद्धा परात्मनः मत्यादिपञ्चभेदानां, ज्ञानानामाश्रयः स्मृतः अनन्तज्ञयपर्यायाः भासन्ते तत्त्वतः स्फुटम् . अभिलायाऽनमिलाप्या, ज्ञेया भावा विचक्षणे ज्ञानभेदेन ज्ञातव्या, शिष्यै सिद्धान्त पाठकैः आत्मैव परमात्मेति, भावनाऽनन्दकारिणी, आत्मदर्शनवाप्त्यर्थ, भावनीया मुमुक्षुभिः ज्ञानदर्शनचारित्र, शर्मवीर्यादिसद्गुणाः आत्मदर्शनसमाप्याः वीर्योत्साहं भजस्व भोः आत्मदर्शनसंप्राप्ति, यस्य जीवस्य जायते; भवाम्भोधिः समुत्तीर्णः केवलज्ञान सम्मुखः
॥३८॥
॥४१॥
For Private And Personal Use Only