________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीयोगनिष्ठमुनिश्रीबुद्धिसागरजीकृता. ॥आत्मदर्शनगीताप्रारभ्यते॥
॥ २ ॥
प्रणिपत्य परात्मानं, योगिध्येयं सनातनम्। धर्मदेवं गुरुं नत्वा, वच्मि सत्यात्मदर्शनम्. आत्मनो दर्शनं श्रेष्ठं, सर्वपापप्रणाशकम्; दृश्यते यन सत्तत्वं, दर्शनं तद्धि कथ्यते. सहजानन्दरूपस्य, चेतनस्य प्रबोधनम्। कृत्वा भव्याः शिवं यान्ति, स्थिरं शाश्वतमालयम्. ॥३॥ आत्मदृष्टिप्रभावेण, रागवृत्ति विहन्यते; बाह्यदृष्टिभवभ्रान्ति, विनश्येदात्मदृष्टितः स्वकीयदर्शनानन्दो, दृष्ट्वात्मानंच प्राप्यते; पूर्णः प्रपूर्णतामेति, पूर्णधर्मप्रभावतः अपूर्णः पूर्णता मेति, पूर्णधर्म प्रभावतः येनांशेन स मुच्येत, तेनांशेन स मुक्तिभाक्. सर्वाशेन प्रमुक्त वात्, सर्व मुक्तः प्रकीय॑ते; सच्चिदानन्दरूपेण, ध्रुवत्वं सार्वकालिकं. आत्मदृष्टिसुधादृष्ट्या, मोहतापो विलीयते; आत्मधर्मोदयः श्रेयान्, परात्मति सगीयते. ॥८॥
For Private And Personal Use Only