________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्ता परात्मनः पूर्णा, व्यक्तिभावेन पूर्यते; पूर्णः पूर्णाब्धिवच्छान्तः शुद्धपर्यायतः स्वयम्. नाऽहं बाह्यमपञ्चस्य, का कारयिता नच; अन्तर्दष्टया विलीयेत, बाह्यदृष्टिस्तुनान्यथा. बाह्यदृष्ट्या कृतं यद्यत्, तत्तन्मे न सुखावह बाह्यदृष्टावहं नास्मि, शुद्धधर्मस्मृतौ स्वयम् शुद्धधर्मप्रबोधेन, सत्यं स्पष्टं प्रभासते; तटस्थः सर्वभावेषु, बाह्येषु नहि लिप्तवान्. ॥ १२ ॥ मदीयं कल्पितं यद्यन् , मिथ्या ज्ञातं विवेकतः ज्ञानादिकं मदीयं यत् , स्वकीयं तत्तु तत्त्वतः शुद्धधर्मे प्रविष्टोऽहं, ध्यान धैर्यप्रभावतः प्राबल्यं मोहशत्रोः किं, दुर्गतौ येन भ्राम्यते. अपूर्वमात्मसामर्थ्य, कर्महत प्रकथ्यते; शुद्धपर्याय कर्ताच, शुद्धध्यानप्रभावतः कर्तात्मा शुद्धरूपस्य, शुद्ध सामर्थ्यतः स्वयम् : वाह्यभावे न मे किश्चित्, विगतो बाह्यविभ्रमः नमे किञ्चिन्न मे किञ्चिद् , बाह्यभावेषु निश्चितम् ; पूर्णोऽहं स्वीयधर्मेण, सत्तया ज्ञातवानह. ॥ १७ ॥ व्यक्तितः पूर्णतामात्य, युक्तोऽस्मि स्वोपयोगतः शक्तिमान् किं न सिद्वयर्थम्, सर्वशक्तिनिधिः स्वयम्. ॥ १८ ॥ आत्मसामर्थ्यतः स्वस्य, सिद्धिर्ज्ञानेन निश्चिता; व्योमवद् ब्रह्मरूपे हि, ज्ञाते कोऽपि न लिप्यते.
For Private And Personal Use Only