________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६ ધ્યાન કરી શકે છે. મનને કેવી રીતે વશ કરવું, તેમજ ઈદ્રિને કેવી રીતે નિગ્રહમાં આવી તે પ્રથમ જણાવી ગયેલા હોવાથી અત્યારે પિષ્ટ પિષણ નહિ કરતાં તેની આ વશ્યકતા જણવી અટકીએ છીએ.
अवतरणम्-अवश्यं सेत्स्यन् येनलिङ्गेनानुमीयते तल्लि. ङ्गमाह ।
श्लोकः शत्रौ मित्रे समा बुद्धिः यस्य मानापमानयोः ॥ तृणे मणौ समा बुद्धिमुक्तिसिद्धिस्तदात्मनः ९९
टीका-यदा यस्य मुमुक्षोः शत्रौ मित्रे च समाबुद्धिः (मित्रे न रज्यति प्रज्ञः शत्रौ नोद्विजते च यः । रागद्वेषविमु. क्तत्वात्स सिद्धिं याति शाश्वतीम् ) इति न्यायाच्छत्रौ द्वेषनिबन्धनं प्रतिकूलताज्ञानं नास्ति-मित्रे च रागनिबन्धनमनुकूलता ज्ञानं नास्ति तथा मानेऽपमाने च समा बुद्धिः ( सत्कारेण प्रहृष्यन्ति न्यक्कारेण द्विषन्ति ये तेषां मोक्षपथो दूरे सन्निधिं याति चान्यथे) ति न्यायान्मानापमानदृष्टिपातो मोक्षपरिपन्थीति नैव तत्र मुमुक्षोरादरानादरधियाऽवेक्षणम् । तथा तृण मणौ च समा बुद्धिः ( केचिन्मूढा धने लग्नाः केचिल्लग्नाः कुटुम्बके कायपुष्टौ परे लग्नाः कीतौ वा विरुदावलौ।।१।।सर्वेषामर्जने दुःखं रक्षणेऽवेक्षणे तथा दुःखं दुःखानुभूतस्ते नैव मुञ्चन्ति पा. मरा इ) तिन्यायात्तुणे मणौ च हेयोपादेयबुद्धिर्नानुभूयते
For Private And Personal Use Only