________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असदुपदेशेन स्वात्मानं नरकं पातयन्तो निर्यन्तो गुर्वाभासाः शिष्यान् परमार्थतो वञ्चयन्ति तेषां गुरुत्ववारणार्थ सद्गुरुं लक्षयति स्तुत्यति ॥
श्लोकः स्तुत्या भक्त्या सदाराध्यः सद्गुरु देवसदृशः ॥ यस्य शुद्धोपदेशेन स्वात्मसिद्धिः प्रजायते ॥४॥ ___ टीका-यस्य शुद्धोपदेशेन लोकैषणा वित्तपणाद्यभावेन केवलं परोदियीर्षया प्रयुज्यमानेन अनन्तमहिमपञ्चमकेवलज्ञान रूपस्वयिसिद्धिः प्रजायते स सद्गुरुरिति गुरुलक्षणम् । देव सदृशः जिनेन्द्र देवसदृश इत्यर्थः । जिनेन्द्रदेवस्तु हस्तामलक वत्साक्षात्कृतत्रैकालिकानन्तगुणपर्यवधजीवाजीवौ वचनकर्म वर्गणानिर्जरार्थमुपादेशति गुरुश्च जिनेद्रवचनानुसारेणावगनसर्वपदार्थविन्यासः करुणया दिशति देशनामिति देवगुरु रुपमानत्वोपमेयत्वलाभ इत्यभिप्रायः । स गुरुः स्तुत्या भक्त्या सदाराध्य इति गुरूपदेशात् स्वात्मनः परमात्म स्वरूपव्यक्तिता रूपा सिद्धिः प्रकर्षण जायते अतएव बहुविध भक्त्या सद्गुरु सेवा परम प्रेम्णा कर्तव्या यतः॥ श्लोकः । गुर्वाज्ञा पारतन्त्र्येण वर्तितव्यंशुभात्मना ज्ञानादि शुद्धता सिद्धिः चिदानन्दं पदं ध्रुवं ॥ १ ॥ इति शिष्यं प्रतिहित शिक्षा ॥ ४ ॥
For Private And Personal Use Only