________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
शुद्धस्तेन जीवस्य संसारानर्थपात आत्मप्रदेशेषु यावत्कर्म पंकस्य गंधोऽपि स्यात् तावन्नानर्थनिवृत्तिरितिभावः मुक्तावस्थायां तु आत्मनोऽसंख्य प्रदेशाः शुद्धाः सन्ति केचिन्नैयायि काय आत्मानं सर्वत्रव्यापकं मन्यन्ते तेषामयमभिप्रायः आत्मनो यदि संकोचविकाशशालित्वं मन्येत तदा सावयवत्वेनानित्यता स्यात् परं तन्न रोचते विद्वन्मनोभ्यस्तथाहि यद्यात्मनो व्यापकं स्वरूपं तदा स्वर्गादिगमनमसंभवि गमनं ह्येकत्रस्थितस्य दृश्यते । न तु व्यापकस्याकाशादेः किञ्च यद्यात्माव्यापक स्तदा स्वात्मवत् परात्मस्य सुख दुःखादिगुणान् कथं न विद्यासर्वात्मनो विद्यमानत्वात् केचिदात्मानमणुपरिमाणं सिद्धान्तयन्ति तेषामयमभिप्रायः यत्राघातेन मरणं स्यात् तानि मर्मस्थानानि परन्त्वन्यत्र मर्मस्थानेषु क्षतः प्राणी भैषज्यप्रतिकारेण जीवन्नपि दृश्यते । हृदयमर्मस्थाने वाहतो धन्वन्तरिणापि भैषयसहस्रेणापि जीवयितुं न पार्य्यत इति हृदयदेशे निष्टञ्जीवोs गुपरिमाण इति परमत्रापि मतेनैव दोषविनिर्मुक्तिस्तथाहि । यद्यणुपरिमाणको जीवस्तदा शरीरे यदेशेनावच्छेदेन विद्यते तत्रैवाघातवेदना | सुखवेदना वानुकुलसम्पर्कात्स्यान्न स्याच्च करचरणादिसतो जीव दुःखानुभविता दृश्यते तु प्रतिकुलेनानु कुलेन वा सर्वाङ्गीणस्पर्शेन दुःखं सुखं वानुभवत न ह श्यते च भिन्नशरीरे पतन्तीमापदं भुञ्जान इति मध्यमपरिमाणं ( शरीराविछिन्नपरिमाणमा )ह जैनाचार्याः पिपीलिका
For Private And Personal Use Only