________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३८
श्लोकः
Acharya Shri Kailassagarsuri Gyanmandir
'आत्मनो गुणनाशेन, स्वयमात्माऽऽत्महिंसकः ॥ भावदयामयः सोऽस्ति, स्वात्मधर्मप्ररक्षणात् ॥८६॥
44
टीका - आत्मनो गुणनाशेनाऽऽत्मास्त्रयमात्म-हिंसकः परो यद्यात्मानं हिनस्ति तदा पारवश्येन सोढव्यम् यदा तु स्वयमेव मिथ्यात्वाविरतिकषाययोगः हिनस्ति तदा कस्यापराध इति महाsन्यायः “ क्क यामः कं प्रतिब्रूमो गरदायां स्वमातरी" तिन्यायात् कोऽसावात्मगुणः कस्माद्वा लभ्यत इत्याह स आत्माभावदयामयः परमाद्रहृदयेकस्वभाव आत्मा धर्मरक्षणाद्भवति न ह्यात्मधर्मे नष्टे वस्तुस्वरूपेऽवतिष्ठते । यथाऽग्निरौष्ण्यधर्म रक्षति तदा तस्मादग्नेः सिंहव्याघ्रादयः पलायन्ते । धर्मे औष्ण्यरूपे नष्टे तु पिपीलिकाभिरप्यभिभूयते नामापि तस्य भस्मेति जायत इति सर्वेषां पदार्थानां स्वस्वधर्मेणैव महत्ता तथा ss मनोपि स्वकीयज्ञानदर्शन चारित्र मुखवीर्यादिधर्मरक्षणेनैव महत्ता भवति । आत्मनो धर्माणां रक्षणमेव भावदया द्रव्यदया तु बाह्यमाणरक्षणरूपा स्वस्यान्येषां च ज्ञातव्या । द्रव्यदयातो भावदयाया महिमाऽनन्तगुणः । भावदयामन्तरेण सकलकर्मक्षयलक्षणो मोक्षः कदापि कस्यापि न संभवति । यो मिथ्यात्वा दिभिरात्मानं हिनस्ति स स्वकीयात्मनो भावशत्रुः । द्रव्यशत्रुतो भावशत्रुरनन्तगुणदुःखदायकः । अत एव भावहिंसकत्वं त्य
1
For Private And Personal Use Only