________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४ टीका-अन्यकार्याणि शुभाशुभरूपाणि कर्मनिषन्धनानि परिग्रहारभ्भजन्यानि परित्यज्य ननु शुभकार्यस्य तूपादेयत्वात्यागोपदेशः कथमभ्यधायीति चेत्सत्यं शुभकार्य सर्वथा को निषेधति किन्तु यः शुद्धात्मध्यानानाधिकारी तस्मै पुण्यानुबन्धिकार्योपदेशस्तस्यापि स्वर्गादिफलत्वाद् शुद्धात्मध्यानाधिकारिण स्तु संसारहेतुत्वाच्छुभाशुभमुभयमपि त्याज्यामिति भावः । उक्तं च तत्त्वार्थसूत्रव्याख्यायां वाचकमुख्यैरुमास्वातिभिः परमार्थाः लाभे वा दोषेष्वारम्भकस्वभावेषु कुशलानुबन्धमेव स्यादनवयं यथा कर्म " परमार्थलाभे तु पुण्यानुबन्धमपि कर्म त्याज्यं दोषे वारम्भकस्वभावेषु सत्सु परमार्थो यो मोक्ष प्रसूते शुद्धध्यानादिस्तस्यालाभे तु तथा प्रयतितव्यं यथा पुण्यानुबन्धमेवानवा कर्म स्यात् । मोक्षो यदि न लभ्येत तदा स्वर्गादिजनकमेव कर्म कुर्यान् मोक्षलाभे तु सर्वं त्यक्तव्यमिति श्लोकार्थः । हे भव्य सर्वाणि पौगलिकरुचिरूपकार्याणि समन्तात्त्यक्त्वा चि. दानन्दं भजस्त्र शुद्धध्यानस्याति लाभसूचनार्थ भो इति सम्बोधन निर्देशः । एतत्सर्व तवैव हितं नास्माकं प्रयोजनम् जा नहाति सूचनार्थ भजस्वेत्यात्मनेपदम् । ननु भवदुपदेशेन यादे कश्चिज्जीवो मुक्तिपथमाप्नुयात्तदा भवतामपि महालाभः॥
" यस्योपेदेशमाहात्म्यान्मुक्तिर्यद्याप्यते जनैः ___ स मुनिः सर्वतो भावस्तीर्थकृत्त्वेन पूज्यते " इति न्यायात्तदा कथमात्मनेपदसङ्गतिरिति चेत्तदा तु
For Private And Personal Use Only