________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्मशक्तिरुदेति तत्समुदायेन नैव विद्यते कश्चिमन्मान्तरफलभोक्ताऽऽत्मा तदभावे च धर्मकर्मनित्यनैमित्तिकानुष्ठानादयोपि दूरादपसारिता एव (धर्मव्याजपरैयूं ते लोकाद् वृत्तिर्विनिर्मिता धर्मध्यानादिपूजादि सर्व मूढमवश्वनम् )
स्याचेदृश्यते किन्न नैवास्तीति मन्महे ।। आत्मानं फलभोक्तारं नैव प्रत्यति बुद्धिमान् । इत्याधाचक्षाणा उच्छृङ्खलाः कयं तूष्णी नीयन्त इति चेदत्र बमः यदि जन्मान्तरकृतकर्माऽत्रजन्मनि न फलं भुङ्क्ते तद समानमीहमानानां केचित्तत्फलमश्नुवते नापरैः फलगन्धोपि हानिः प्रत्युत चाप्यते विना शुभादिकर्मभ्यां नास्तिकःसम्मुखे बुधां यद्वातद्वा ब्रुवन् प्राज्ञैरर्धचन्द्रेण सार्यते इत्युक्तदिशा उद्योगवतां समानविनवानां तुल्यैः फलै-भवितव्यम् । दृश्यते तु सर्वे षां भिन्नफलतेत्यनेकजन्मवानात्मास्तीत्यप्रत्यक्षाप्यनुमयिते।। प्रकृते यदि जन्मान्तरीय आत्मा न स्यात्तदुत्पन्नमात्रस्य बालस्य मातृस्तन्यपाने प्रवृत्तेः किं कारणमिति नास्तिको ब्रवीतु। तस्य मते जन्मान्तरीयस्यात्मन एकस्याभावात् ममेदं स्तन्यपानमिष्टमि ति स्मरणरूपज्ञानस्य तज्जन्यायाः स्तन्यपानेच्छायाश्चाभावात् । अस्माकं जन्मान्तरानुभूतस्मृतिरिदानीमपि विद्यत आत्मन एकत्वादिति न दोषलेशशेषोपीति विचारयन्तु विद्वांसः । नन्वेकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायेन स्मृतावप्युदोधकं कारणं तत्त्वत्र न पश्याम इति सिद्धान्तिमतेऽपि कथं स्त
For Private And Personal Use Only