________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
એને જ તેનું રહસ્ય બરાબર જણાય.
अवतरणम्-सर्वपदार्थावभासने चेतने ज्ञात्वरूपासाधारणधर्ममुक्त्वाऽऽत्मनः नित्यत्वं साधयति.
श्लोकः ज्ञाताशक्तितः सर्वपदार्थो ज्ञायते ध्रुवम् । नित्यत्वादात्मनःपूर्वजन्मनो ज्ञातृशक्तिता ७३
टोका--सर्वोपि पदार्थः स्थावरजंगमात्मक आत्मनो ज्ञातृताशक्तित एव ध्रुवं ज्ञायते न कदाचिदपि ज्ञानशक्तेरत्यन्ता भावः सा च ज्ञानशक्तिरनाथपर्यवसाना कुत इति चेत्तदाह आत्मनो नित्यत्वादिति नन्वात्मनो नित्यत्वमेव कथं निरधारीत्यत आह यतः पूर्वजन्मनाजन्मान्तरसम्बन्धिनी ज्ञातृशक्तिता नुभूयते अयं भावः कतिचिजना अमुकामेऽहमजनिषि तन्नामा में ब्राह्मणः पिता तत्रैव ग्रामे मातापि तन्नाम्ना मामाह्नयन्ती स्मयते नैव धनिकपुत्रो भूत्वा शुष्कान्नमनामीत्याद्याचक्षाणो ममोद्वाहः पाटलिपुत्रनगरे जातस्तन्नाम्नी मे भार्या तत्रोद्याने च स्वीयवयस्यैः सह क्रीडितं ममासीदिति विशेषत्तं दृश्यते लब्धजातिस्मरणो दद्यापि तन्नैवात्मनो नित्यत्वमन्तरेण युज्यत इति नित्य एवात्मेति मन्तव्यम् । ननु केचित्तु यथागुडादिद्रव्यसमुदायेन मादकशक्तिरेका सर्वद्रव्यविलक्षणा प्रादुर्भवति तथा शुक्रशोणितादिष्वविद्यमानाप्या
For Private And Personal Use Only