________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पद्रुतोऽमा चिन्तामणिरत्नतः यस्य प्रतापोऽधिक इत्य न्वयः। व्यतिरेकसाधकमग्रे हेतुगर्भविशेषणद्वयं धर्मकामार्थसाधीयानिति मुक्तिदायक इति च कल्पद्रुत इति कल्पद्रुमपेक्ष्याधिकः प्रताप इत्यर्थात् महिमादिशब्दमपहाय प्रताप शब्दोक्त्या व्युत्पत्तिलब्धार्थेनैव व्यतिरेकः सिद्धस्तथाहि प्र. पूर्वकसन्तापार्थकतपधातोभीवे घञ् तेनाष्टकर्ममहाशत्रूणा सताप पूर्वकं ( सपूर्वकं ) शुद्धचैतन्यमर्थः शब्दशक्त्यैव लभ्यते कल्पवृक्षस्तु कल्पितं पुत्रकलबद्रविणादिकं द्रवति ददाति नहि कचिदपि मोक्षं ददत् कल्पटलो दृष्टः श्रुतो वास्ति अन्यैरप्युक्नं ( तमेव विदित्वाति मृत्यु मेति नान्यः पन्था वियते अयनाय ) इति ( ऋने ज्ञानान्न मुक्तिरि ) ति च श्रुतेः इत्यभिमेत्यैत्र मूले मुक्तिदायक इत्युक्तम् ।
ननु सिद्धेऽपि व्यतिरेके चिन्तामणिरत्नं किमर्थमुपातं मुले इति चेद् ब्रमः मह्यं देहि मह्यं देहीतिवचनविषयं ददाति कल्पवृक्षश्चिन्तामणिस्तु वचनोच्चारणमन्तरेणैव चिन्तितमेव ददातीति कल्पवृक्षापेक्षयाधिकादपि चिन्तामणेर्गुरुप्रतापोधिक इत्य तिशयबोधनार्थमिति । ननु मोक्षस्य सर्वोत्तमत्वात् कथं धर्मादपि पूर्व पाठो नापाठि ? सत्यं धर्मस्य मोक्षोद्भवेऽपि हेतुत्वाद् धर्मस्यैव पूर्व पाठ उचितोऽन्ते प्राप्यत्वान्मोक्षस्यान्त एव पाट उचित अत एव ( जीवाजीवासवबन्धसंवरनिरामोक्षास्तत्वमिति ) अन्ते मोक्ष पाठः शास्त्रकृतामुमास्वात्याचार्याणां
For Private And Personal Use Only