SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ चन्दनदास:- आर्य ! अलीकमेतद् केनाप्यनभिज्ञेन आर्यस्य निवेदितम्। चाणक्य:-भोः श्रेष्ठिन् ! अलमाशङ्कया, भीताः पूर्वराजपुस्खा: पौराणामनिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति ततस्तत्प्रच्छादनं दोषमुत्पादयति। चन्दनदासः-एवमिदम् , तस्मिन्समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।। चाणक्यः-पूर्वमनृतमिदानीमासीदिति परस्परविरोधिनी वचने । चन्दनदासः-एतावदेवास्ति मे वाक्छलम् । चाणक्य:-भोः श्रेष्ठिन् ! चन्द्रगुप्ते राजन्यपरिग्रहः छलानाम्, तत्समर्पय राक्षसस्य गृहजनम्, अच्छलं भवतु भवतः । चन्दनदास:-आर्य ! ननु विज्ञापयामि तस्मिन्समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति । चाणक्य:-अथेदानी व गत: ?। चन्दनदास:-न जानामि। चाणक्य:- (स्मितं कृत्वां) कथं न ज्ञायते नाम, भोः श्रेष्ठिन् ! शिरसि भयमतिदूरे तत्प्रतीकारः । चन्दनदासः- (स्वगतम्) उपरिघनं घनरटितं दूरे, दयिता किमेतदापतितम्। हिमवति दिव्यौषधयः,शीर्षे सर्पः समाविष्टः ।। अच्छल न. छरित५i. अनभिज्ञ वि. सशात. घनरटितं गाढ भवा४. (गठन) ર૬૯
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy