________________
પરિશિષ્ટ चाणक्य:- न खलु चन्द्रगुप्तदोषा अतिक्रान्तपार्थिवगुणानधुना स्मारयन्ति प्रकृती:?
चन्दनदासः- (कर्णी पिधाय) शान्तं पापम्, शारद-निशासमुद्गतेनेव पूर्णिमाचन्द्रेण चन्द्रेणाधिकं नन्दन्ति प्रकृतयः।
चाणक्य:-भोः श्रेष्ठिन् ! यद्येवं प्रीताभ्यः प्रकृतिभ्यः प्रति प्रियमिच्छन्ति राजानः।
चन्दनदास:- आज्ञापयतु आर्य: । कियदस्माज्जनादिष्यत इति ।
चाणक्य:-भोः श्रेष्ठिन् ! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्, यतो नन्दस्यैवार्थरुचेर्थसम्बन्धः प्रीतिमुत्पादयति, चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः- (सहर्षम्) आर्य ! अनुगृहीतोऽस्मि। चाणक्यः-संक्षेपतो राजनि अविरुद्धाभिर्वृत्तिभिर्वर्तितव्यम्।
चन्दनदासः-आर्य ! कः पुनरधन्यो राज्ञा विरुद्ध इति आर्येणावगम्यते।
चाणक्यः-भवानेव तावत्प्रथमम्।
चन्दनदासः- (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्, कीदृशस्तृणानामग्निना सह विरोध: ?।
चाणक्य:-अयमीदृशो विरोधः, यस्त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहमभिनीय रक्षसि । अतिकान्तपार्थिव पुं. old it. अर्थरुचि वि. पैसानी छापाणो. चन्द्र पुं. चन्द्रगुप्त.
૨૬૮