________________
પરિશિષ્ટ
अस्त्युज्जयिनीवर्त्मनि प्रान्तरे महान् पिप्पलीवृक्षः । तत्र हंसकाकौ निवसतः । कदाचिद् ग्रीष्मसमये परिश्रान्तः कश्चित्पथिकस्तत्रतस्तले धनुःकाण्डं संनिधाय सुप्तः । क्षणान्तरे तन्मुखाद् वृक्षच्छायापगता । ततः सूर्यतेजसा तन्मुखं व्याप्तमवलोक्य कृपया तद्वृक्षस्थितेन हंसेन पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता । ततो निर्भरनिद्रासुखिना तेनाऽध्वन्येन मुखव्यादानं कृतम् । अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावदसौ पान्थ उत्थायोर्ध्वं निरीक्षते तावत्तेनावलोकितो हंसः, काण्डेन हत्वा व्यापादितः । अत उच्यते, दुर्जनेन समं न स्थातव्यम् ।
खलः करोति दुर्वृत्तं, नूनं फलति साधुषु । दशाननो हरेत्सीतां, बन्धनं स्यान्महोदधेः ॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः । वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यश: सुखकरी विद्या गुरूणां गुरु । विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यम् काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्त्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ अध्वग पुं. मुसाई२.
काण्ड नपुं. जाग. केयूर ५. जानुजंध.
२१०
मूर्धज पुं. वा.
व्यादान नपुं. पो. स्रोतस् नपुं. प्रवाह.