________________
પરિશિષ્ટ
भद्र !
अथं तं तादृशमवलोक्य चटका प्राह, भो हस्तपादसमापेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ ! कथं न कुरुषे गृहम् ?॥
एतच्छ्रुत्वा तां वानरः सकोपमाह - अधमे ! कस्मान्न त्वं मौनव्रता भवसि ?
'अहो, धाष्टर्यमस्याः अद्य मामुपहसति । सूचीमुखी दुराचारा, रण्डा पण्डितवादिनी । नाऽऽशङ्कते प्रजल्पन्ती, तत्किमेनां न हन्म्यहम्" ॥ एवं प्रलप्य तामाह-मुग्धे ! किं तव ममोपरि चिन्तया । उक्तं च
वाच्यं श्रद्धासमेतस्य, पृच्छतश्च विशेषतः ।
प्रोक्तं श्रद्धाविहीनस्य, अरण्यरुदितोपमम् ॥ तत्किं बहुना तावत् । कुलायस्थितया तयाऽभिहितः स तावत्तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि - 'उपदेशो न दातव्यः' इति ।
३
मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरङ्गैः ।
मूर्खाश्च मूखैः सुधियः सुधीभिः
समानशीलव्यसनेषु सख्यम् ॥
कुलाय पुं. भाणो.
खण्डशस् ञ. टूम्डे टू5डा. चटक पुं. यो.
૨૬૩
दम्पती (जाया च पतिश्च)
समापेत वि. सहित. सूची स्त्री. सूर्य, सोय.