________________
પરિશિષ્ટ दुरन्तविषयास्वाद-पराधीनमना जनः । अन्धोऽन्धुमिव पादाग्र-स्थितं मृत्युं न पश्यति ॥ आपातमात्रमधुरै-विषयै विषसन्निभैः । आत्मा मूछित एवाऽऽस्ते, स्वहिताय न चेतति ॥ तुल्ये चतुर्णां पौमर्थ्ये पापयोरर्थकामयोः। आत्मा प्रवर्तते हन्त न पुनर्धर्ममोक्षयोः ॥ अस्मिन्नपारे संसारपारावारे शरीरिणाम्। महारत्नमिवाऽनयँ मानुष्यमतिदुर्लभम् ॥ मानुष्यकेऽपि सम्प्राप्ते प्राप्यन्ते पुण्योगतः। देवता भगवानर्हन् गुरवश्च सुसाधवः ॥ मानुष्यकस्य यद्यस्य वयं नादद्महे फलम् । मुषिताः स्मः तदधुना चौरै वसति पत्तने ॥
उपदेशो न दातव्यो यादृशे तादृशे जने। पश्य वानरमूर्खेण सुगृही निगृहीकृता । दमनक आह- कथमेतत् ? सोऽब्रवीत्
अस्ति कस्मिंश्चिद्वनोद्देशे शमीवृक्षः, तस्य लम्बमानशाखायां कृतावासावरण्य-चटकदम्पती वसतः स्म।
अथ कदाचित्तयोः सुखसंस्थयो हेमन्तमेघो मन्दं मन्दं वर्षितुमारब्धः।
अत्रान्तरे कश्चिच्छाखामृगो वातासारसमाहत: प्रोधूषितशरीरो दन्तवीणां वादयन् वेपमानस्तच्छमीमूलमासाद्योपविष्टः । अनर्घ्य वि. अमूल्य. प्रोद्धूषित वि. रोमांयित. अन्धु पुं. पो.
मानुष्यक न.मनुष्य५. आपात पुं. शरुमात.
वेपमान 4. पृ. ६४तो. आसार पुं. वेगथी वृष्टिन ५७j ते. शमी स्त्री. जी४ानुं आर. पारावार पुं.समुद्र.
शाखामृग . qiहरो. पौमर्थ्य न. पुरुषार्थ.
૨૬૨