________________
પરિશિષ્ટ
परिशिष्टम्
अपरेधुः शतबलो विद्याधरपतिः सुधीः। महासत्त्वस्तत्त्वविज्ञ-श्चिन्तयामासिवानिदम्॥ विधाय सहजाऽशौच-मुपस्कारैर्नवं नवम्। गोपनीयमिदं हन्त, कियत्कालं कलेवरम् ॥ सत्कृतोऽनेकशोऽप्येष सक्रियेत यदापि न । तदाऽपि विक्रियां याति कायः खलु खलोपमः॥ अहो बहिनिपतितै-विष्ठमुत्रकफादिभिः। हणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितै न किम्॥ रोगा: समुद्भवन्त्यस्मिन्नत्यन्तातङ्कदायिनः । दन्दशूका इव क्रूरा जरद्विटपिकोटरे॥ निसर्गाद् गत्वरश्चायं कायोऽब्द इव शारदः । दृष्टनष्टा च तत्रेयं यौवनश्रीस्तडिनिभा ॥ आयुः पताकाचपलं तरङ्गतरलाः श्रियः । भोगिभोगनिभा भोगा: सङ्गमा: स्वप्नसन्निभाः ।। कामक्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम्। आत्मा शरीरान्तःस्थोऽसौ पच्यते पुटपाकवत् ।। विषयेष्वतिदुःखेषु सुखमानी मनागपि ।
नाऽहो विरज्यति जनोऽशुचिकीट इवाऽशुचौ॥ अपरेधुः स. मेक्सि . पुटपाक परीने ५४वते. आतङ्क पुं. पी31, भय.
विटपिकोटर पुं. वृक्षनी अमोल. उपस्कार पुं.सं.२, 21५८५. सहज वि. सामावि, साथे जन्मेल. गत्वर वि. पाना स्वभावाj. हणीय (१९४६) शरमापुं.
૨૬૧