________________
પરિશિષ્ટ अपारे संसारे कथमपि समासाद्य नृभवम्,
न धर्मं यः कुर्याद् विषयसुखतृष्णा-तरलितः । ब्रुडन् पारावारे प्रवरमपहाय प्रवहणम्,
स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ।। विद्वानेव हि जानाति, विद्वज्जनपरिश्रमम्।
न हि वन्ध्या विजानाति, गुर्वी-प्रसववेदनाम् ।। उदेति सविता ताम्र-स्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च, महतामेकरूपता ।। अधमजातिरनिष्टसमागमः
प्रियवियोगः भयानि दद्धिता। अपयशोऽखिललोकपराभवो
भवति पापतरोः फलमीदृशम् ।। उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि,
क्रां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले। सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्पाटवः,
क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः॥ जाड्यं धियो हरति सिञ्चति वाचि सत्यम्,
मानोन्नति दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्,
सत्संगतिः कथय किं न करोति पुंसाम् ॥ तावद् गर्जन्ति मातङ्गा वने मदभरालसाः । लीलोलालित-लाङ्गलो यावन्नायाति केसरी ॥
कूज् ५२. २. १. ५६ानु पोखj. गुर्वी स्त्री. मel. रसाल पुं. wil.
૨૬૪