________________
यस्यास्ति वित्तं स नर: कुलीन:
स एव वक्ता स च दर्शनीयः । स पण्डितः स श्रुतवान् गुणज्ञः
सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ सुमुखेन वदन्ति वल्गुना
प्रहरन्त्येव शितेन चेतसा। मधु तिष्ठति वाचि योषिताम्
हृदये हलाहलं महद्विषम् ॥ भूमिक्षये राजविनाश एव
भृत्यस्य वा बुद्धिमतो विनाशे। नो युक्तमुक्तं ह्यनयोः समत्वं
नष्टापि भूमिः सुलभा न भृत्याः ॥ आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना
___ छायेव मैत्री खलसज्जनानाम् ॥ वरं वनं व्याघ्रगजादिसेवितं
जनेन हीनं बहुकण्टकावृतम् । तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवितम् ॥ विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचि र्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ।।
૧ર