________________
सुभाषितानि नरस्याभरणं रूपं, रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा ॥ नास्ति विद्यासमं नेत्रं, नास्ति सत्यसमं तपः । नास्ति लोभसमं दुःखं, नास्ति त्यागसमं सुखम् ॥ उद्यमः साहसं धैर्य, बुद्धिः शक्तिः पराक्रमः । षडेते यत्र वर्तन्ते, तत्र देव: प्रसीदति ।। असती भवति स-लज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रिय-वक्ता भवति धूर्तजनः । अयं निजः परो वेति, गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥ दातव्यं भोक्तव्यं सति, विभवे सञ्चयो न कर्तव्यः । पश्येह मधुकरीणां, सञ्चितमर्थ हरन्त्यन्ये । पिपीलिकार्जितं धान्यं, मक्षिकासञ्चितं मधु । लुब्धेन सञ्चितं द्रव्यं, स-मूलं वै विनश्यति ॥ रक्षन्ति कृपणाः पाणौ, द्रव्यं क्रव्यमिवात्मनः । तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ गिरिर्महागिरेरब्धिर्महानब्धेर्नभो महत् । नभसोऽपि महद्ब्रह्म, ततोऽप्याशा गरीयसी ॥ आशा नाम मनुष्याणां, काचिदाश्चर्यशृङ्खला । यया बद्धाः प्रधावन्ति, मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषवर्धनम् ॥
१७१