________________
कथा कस्मिंश्चित्स्थाने कुम्भकारः प्रतिवसति । स कदाचित्प्रमादादर्धभग्नघटखर्परोपरि महता वेगेन धावपतितः । ततः खर्परकोट्या पाटितललाटः रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्यसेवनात्स प्रहारस्तस्य करालतां गतः, कृच्छ्रेण नीरोगतां नीतः। ____अथ कदाचिद् दुर्भिक्षपीडिते देशे स कुम्भकार: कैश्चिद्राजसेवकैः सहान्यस्मिन्देशे गतः, कस्यापि राज्ञः सेवकोभूतः । सोऽपि राजा तस्य ललाटेविकरालं प्रहारक्षतं दृष्ट्वाचिन्तयद् यद् वीरः पुरुषः कश्चिदयम् नूनं तेन ललाटपट्टे प्रहारः' । अतः तं समानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यति । तेऽपि राजपुत्राः तस्य तां प्रसादविशेषतां पश्यन्तः ईर्ष्याधर्मं वहन्तो राजभयान्न किञ्चिद्वदन्ति ।
__ अथैकदा संग्रामे समुपस्थिते तेन भूभुजा सकुम्भकारः पृष्टो निर्जने । भो राजपुत्र ! किं ते नाम, का च जातिः कस्मिन्संग्रामे प्रहारोऽयं लग्नः । सोऽवदत्-देव ! नायं शस्त्रप्रहारः । युधिष्ठिरनामा कुलालोऽहम् ।मम गृहेऽनेकखर्पराण्यासन्।अथ कदाचिन्मद्यपानं कृत्वा निर्गतः प्रधावन्खर्परोपरि पतितः । तस्य प्रहारविकारोऽयं मे ललाट एवं विकरालतां गतः । राज्ञाचिन्त्यत-'अहो वञ्चितोऽहं कुलालेन' कथितं च कुलालाय, भोः कुलाल ! त्वयातो झटिति गम्यताम्' इति ।
१93