________________
વિવેકવિલાસ, આઠમ હૈલાસ.
( अथ दष्टविचारः।) त्रुट्यन्ति मूर्धजा यस्य , दृग्मध्ये धवलो लवः॥ कण्ठग्रहो वपुः शीतं, हिका क्षामकपोलता ॥ १७७॥ भ्रमिर्मोहोऽङ्गदाहश्च , शशिरव्योरवीक्षणम् ॥ गात्राणां कम्पनं भङ्गो, दृशो रक्ते सनिद्रता ॥ १७८॥ लाला विरूक्षता पाण्डु-रत्वं वाक्सानुनासिका ॥ विपरीतार्थवीक्षा च , जृम्भा छर्दिः स्वरान्यता ॥ १७९ ॥ छेदे सावो न रक्तस्य , न रेखा यदि ताडने ॥ नाधस्तात्स्तनयोः स्पन्द-दर्शनं गलकेपि च ॥ १८ ॥ दशनाकारधारित्वं , सुव्यक्तं कर्णपृष्ठतः॥ निश्वासस्य च शीतत्वं, कंधराप्यतिभङ्गरा ॥ १८१॥ शोणिते पयसि क्षिप्ते, विस्तरस्तैलबिन्दुवत् ॥
ओष्ठसंपुटयोर्मुद्रा, भेदो मेलितयोरपि ॥ १८२॥ जिह्वाविलोकनं नैव , न नासाग्रनिरीक्षणम् ॥
आत्मीयो विषयः कश्चि-दिन्द्रियाणां न गोचरः॥ १८३॥ मुखे श्वासो न नासायां, विकाशो नेत्रवक्रयोः ॥ चन्द्रे सूर्यभ्रमः सूर्य, चन्द्रोऽयमिति च भ्रमः ॥ १८४॥ कक्षायां रसनायां च, श्रवणद्वितयेऽपि च ॥ वाङ्गपादोपमं नीलं, यदि चोत्पद्यते स्फुटम् ॥ १८५ ॥ दर्पणे सलिले वापि, स्वमुखस्यानिरीक्षणम् ।। न दृशोः पुत्तिका स्पष्टा, पुरस्थैरवलोक्यते ॥ १८६ ।। शोफः कुक्षौ नखानां च , मालिन्यं सहसा तथा ॥ स्वेदः शुलं गले भक्ष्य-प्रवेशो न मनागपि ॥ १८७॥
"Aho Shrutgyanam"