________________
न्मानसस्यातिकामति तारुण्येऽपत्यचिन्तासन्तापश्चेतसि प्रादुर्बभूव । एकदा प्रहरमात्रे दिवसे भद्रकालसंज्ञकस्य मद्धापासादस्योपरि निषष्णः स्वदेव्या अन्तःपुरपरिजनोपास्यमानया मदिरावत्या सह प्रवृत्तालापः स दक्षिणापथादागच्छन्तं विद्याधरमुनिमवेक्ष्य बहलकुतूहलो देव्या साकमभ्युत्तस्थौ । स मुनिरपि मुहुरुपगीतस्वागतं तमवलोकयान्तस्तरङ्गित प्रीतिस्तदभिमुखं गगनतला. दवततार । ऊर्ध्वकुट्टिमावतीण तमुपसृत्य सपर्यया सत्कृत्य च सुवर्णमयासने समुपवेश्य स्वयमव. नितलोपविष्टस्तेन पृष्टः सर्वमात्मवृत्तान्तमनपत्यतादुःखान्तमाचष्ट । तदनु च स्वदेव्या रोदननिदानमावेदयता तेन
"विपदिव विरता विभावरी नृप ! निरपायमुपास्स्व देवताः।
उदयति भुवनोदयाय ते कुलमिय मण्डलमुष्णदीधितेः ॥ १॥" इति निशावसाने प्राभातिककर्तव्यावेदनार्थप्रविष्टबन्दिवत्र-निर्गतमपस्वकत्रपद्यमाकर्ण्य तदनुसारमिष्टसिद्धयर्थमरण्यमध्युष्य देवताराधनमध्यवस्यता मया यावदहं सिद्धसमीहितस्ततः प्रत्यागच्छामि ताक्द्गुरुजन परिचर्यापस्या त्वयाऽत्रैव स्थेयमित्यभ्यर्थिता देवी सपदि मूर्छिता । परिजनेनोपचरिता सती निःश्वस्य “सन्तानसिद्धये वनम्प्रस्थातुकामस्य ते नाहम्प्रति वध्नामि प्रस्थानम् , परं त्वया विरहिता क्षणमपि नाहं स्थातुं पारयामीति मामिह विसृज्य व्रजसि चेत् तवेदमन्तिमं दर्शनमित्यभिधाय करुणमश्रुधाराभिरनयाऽमन्दमन्दि । तदस्यामवस्थायां मया किमनुष्ठेयमिति भवाननुज्ञातुमर्हति"
इत्युदीरितो मुनिस्तत्क्षणं योगनिद्रामाश्रित्योन्मीलितलोचनः प्रत्युवाच
"नृपते ! किञ्चिदेवावशिष्टं सम्प्रति त्वदीयमपत्योत्पादप्रतिपन्थिदुरदृष्टं मया दृष्टम् । तस्मादरण्यप्रयाणसंकल्पमपहाय निजनिकेतनमेवाधितिष्ठन्नुपास्व क्षोणीपतिप्रतीक्ष्येक्ष्वाकुभरतभगीरथादिभूतपूर्वभूपतिभिरभ्यर्हितां भगवती राजलक्ष्मीम् । सैव तेऽभीष्टार्थवरमचिरेण वितरीष्यति । अपि चापराजिता नाम्नी मन्त्र विद्यां तुभ्यं प्रतिपादयामि देवतार्चनानन्तरअपाय । नास्ति तदिष्टं यन्नेष्टे तदुभयमनुष्ठितं सम्पादयितुम् "
इत्यभिधाय तां विद्यामपि प्रत्यपादयत् । तदनु पुष्पफलपत्रांशुकैरत्नालङ्करणैश्च नृपकृतारों गृहीत्वा मदीरावतीमपि कतिपयनियमानुपदिश्य च जम्बूद्वीपवर्तिप्रधानतीर्थप्रस्थानानुमति गृहीत्वा मुनिः स्वासनादुत्तस्थौ । अनूत्थिताभ्याश्च ताभ्यां कृत प्रणतिभ्यां दम्पतिभ्यामाशिष दवा अन्तरिक्षमार्गमुत्पपात ।
तदनु समाहूतगुरुवान्धवबुद्धिसचिवैः साकमालोच्य प्रमदवनमध्य एवाक्रोडपर्वतान्तिके निर्मा पिते देवालये लक्ष्म्याः प्रतिमाम्प्रतिष्ठाप्य मुनिदर्शितदिशा प्रत्यहमुपासीनस्य तस्य बहुतिथेषु दिवसेष्ववसितेषु नृपतिरसावेकदा पर्वदिवसे श्रियो देव्याः सायन्तनीमर्हणां सम्पाद्यपृथिव्याम्प्रथमतीर्थतया प्रथितं शक्रावतारं नामसिद्धायतनमत्राजीत् ।