________________
तत्र प्रविशन्नेव तद्द्वारदेशे भगवन्तमादिनाथम्प्रणम्याभिमुखमागच्छन्तमेकं वैमानिकमद्राक्षीत् । दर्शनमात्रेण प्रतीतदिव्यताकस्य तस्य सौम्येऽपि शरीरे, लोकोत्तरप्रभाप्राग्भारेणातीव विस्मितमानसोऽसौ कृतार्थमात्मनं मत्वा रचिताञ्जलिरअसा किञ्चिदुपसृत्य स्वागतमकार्षीत् ।
वैमानिकोऽपि तमुपसृत्य प्रचुरप्रीतिजुषा चक्षुषा सुचिरमामूलचूलमवलोक्य मधुरेण स्वरेण बक्तमारेभे
"राजन् ! स त्वमद्य चक्रवर्तिलक्षणैश्चक्रवतित्वेन लक्ष्यमाणोऽसि यो देवासुरसन्दोहसंकुले देवसदसि पुरन्दरपुरस्तान्नृपतिततिवर्णनावसरे मयंभुवनवार्ताऽऽवेदननियुक्तैः प्रमुखदेवजनैः शौयौंदार्यादिगुणैः स्तूयमानस्तत्सदस्येन मया श्रुतोऽसि । अतर्कितोपनतेनेदानीन्तनेन त्वदवलोकनेन मम चक्षुः कृतार्थमजनि, फलितञ्चादिनाथदर्शनजातमधुनैव पुण्य जातम् ।
अहन्तु सौधर्मसुरलोकवास्तव्यो ज्वलनप्रभनामधेयो वैमानिकः स्वर्गात् प्रस्थाय गगनमार्गेण गच्छन् पथि देवालयमिमं वीक्ष्य भगवता शक्रेण स्वयमिहैव तीर्थङ्कराणामाद्यो भगवान् ऋषभदेवः प्रतिष्ठापित इति निश्चित्याकाशदेश एव स्वपरिजनान् परिहाय एकाकितयैवात्रागत्य भगवन्तमादिनाथमद्राक्षम् ।
अतः परमहं नन्दीश्वराख्यं द्वीपं जिगमिषामि, यत्र मत्परममित्रभूतः सुमाली नाम देवः स्वयम्प्रभानाम्न्या देव्या जिनायतनलक्ष्मी द्रष्टुमानीतो नन्दीश्वरोदसागरनिकटवर्तिकटककाननेषु कान्तासमेतः क्रीडति । तस्य च तद्द्वीपवर्तिनी रतिविशालानाम्नी नगरीमधिवसतो महदरिष्टमुपस्थाय महत् कष्टमनुभावयति समग्रपरिजनम् , सूचयति च तस्य तत्पधानकलत्रस्य वाऽचिरभावि देवलोकात् प्रच्यवनम् । अतः सर्वभावानां भगुरस्वभावताकीर्तनेनादसीयवेदनामुपशमथ्य प्रातस्ततोऽपि मया परावर्तितव्यम् । यतो ममापिस्वर्गोपभोगजनकं पुण्यमुपक्षीणप्रायम् , अतः स्वर्गच्यवनकालोचितं शुभकर्माविलम्वनानुष्ठेयम् ।
इक्ष्वाकुकुलचन्द्र ! चन्द्रातपाख्यमखिलपत्यूहापहारं हारं तुभ्यमुपहरामि, अयं हिक्षीरोदेन स्वरक्षितरत्नकोशादतिस्थूलानि वर्तुलानि च मुक्ताफलान्युद्धत्य स्वयमतिकौतुकेनागुम्फितः, स्वयंवरसमनन्तरं स्वभर्तुर्विष्णोरॅहगच्छन्त्या लक्ष्म्याः कण्ठाभरणताङ्गमितः, लक्षम्यापि जयन्तजन्मोत्सवे ज्येष्ठभार्येति मत्वा इन्द्राय समर्पितः, इन्द्राण्यापि सुचिरं निजघनस्तनमण्डलमण्डनतामापाद्य स्वसखोस्नेहवशेन मार्याः प्रियङगुसुन्दर्या ग्रीवायामर्पितः । क्यचन धर्मकर्मणि स्वभार्या नियुज्य प्रस्थितेन मया तद्विरहवेदनापनोदनाय स्त्रकण्ठे समारोप्य मया नीतः । मत्प्रणयप्रार्थनाभङ्गमकृत्वा निर्वितर्कमिमं गृहाण मदुपहारं हारम् । क्षीणायुषो मम स्वर्गच्यवनोत्तरं मां विमुच्य स्वर्ग एव तिष्ठेदयं हारः, भवता गृहीतस्त्वयं कदाचन मयंभुवनजनिष्यमाणयो