SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अह नमः॥ श्री तिलकमञ्जरी कथासारः + बहावीत [शिखरिणी-वृत्तम् ] युगादीशं नत्वा ऋषभजिनराजं जगदिनं तथा शान्तीशानं सुरपतिनतं शान्तिजनकम् । सुशीलं नेमीशं सुगुणयुतपार्श्वेशममलं महावीरं धीरं समितभवतीरं शुभगिरम् ॥१॥ [शार्दूलविक्रीडित-वृत्तम् ] श्रीमन्नेमिसूरीश्वरं सुचरणं तीर्थोन्नतौ प्रोद्यतं सूरिं शास्त्रविशारदं कविवरं वाचस्पति व्याकृतौ । लावण्यं प्रगुरुं गुरुं च विमलं पन्न्यासदक्षाभिधं स्मृत्वा चैव सदाईती भगवती सत्यां च मुक्तिप्रदाम् ॥२॥ __[अनुष्टुप्-वृत्तम् ] कमनीयां कथां चक्रे, नाम्ना तिलकमञ्जरीम् । ___ भोजभूपालविज्ञप्त्या, धनपालपरमाईतः ॥३॥ मनो मोदाय बालानां, संक्षेपरुचिशालिनाम् । पन्यासेन सुशीलेन, गणिना मुनिना मुदा ॥ ४ ॥ आर्या-वृत्तम्] तिलकमअरी जलधेरुनीतः कौस्तुभस्तारः । __ कथाकुतुकिनां कण्ठे हारः स्यात् सत्कथासारः ॥५॥ अस्तितमामुत्तरकोशलेषु चिरन्तनी सूर्यवंशराजधानी रिपुभिरयोध्या काचिदयोध्यानाम्नी नगरी । तस्यां रघु-दिलीप-दशरथादिदिव्यक्षोणीपतिप्रथितेक्ष्वाकुकुलसम्भवो मेघवाहनो नामा सार्वभौमो नृपतिरासीत् । तस्य सचिवचयोह्यमानराज्यभारस्य सततमसीमसौरव्यसागरनिमज
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy