________________
४
टिप्पनक- परागविवृतिसंवलिता
जडप्रधानोsपरभङ्गगोऽपि सपङ्कजातः सगरान्वयोऽपि । नीचः प्रकृत्यामृतमाश्रितोऽपि, सप्ताम्बुराशिप्रकरः पृथिव्याम् ॥ ५ ॥
यच्छत्रसप्तस्फटशालिनागाधिराजसद्व्याजनिषेवणेन ।
महाशयत्वं समवाप नित्यं, पायादपायाजिनः स पार्श्वः ॥ ६ ॥ [ उपजातियुग्मम् ]
येनोदयति कौमुदच्छविततिर्यस्तारको पासितः, सर्वाशासुखसम्पदां प्रथयिता शश्वत् सुधामाश्रयन् । यश्चञ्चद्धरिणाङ्कितः शमनिधिः सद्वृत्त सौभाग्यभूर्वन्देऽज्ञानतमोहरं बुधवरं वीरं तमिन्दुं सदा ॥ ७ ॥ [ शार्दूलविक्रीडितम् ]
wwww
पुरुषादानीयं त्रयोविंशतितमं पार्श्वनाथनामानं तीर्थङ्करं पद्यद्दयेन मङ्गलपथमवतारयति - जड प्रधेत्यादिना । प्रकृत्या स्वभावेन नोsपि अथमोsपि, जडप्रधानोऽपि महाजडोऽपि परेणाऽन्येन यो भङ्ग आमर्दनमालोडनमित्यर्थः, तं गच्छतीति परभङ्गगोऽपि, सपङ्कजातोऽपि अर्धकलापकलितोऽपि, सगराम्बयोऽपि गरेण विषेण सहितोऽन्वयः परम्परा यस्य तथाभूतीऽपि मृतं मरणम्, विनाशमित्यर्थः, आश्रितोऽपि, सप्ताम्बुराशिप्रकरः सप्तद्वीपसमुद्रनिकरः, यस्य पार्श्वनाथस्य छत्रेण छत्रभूतेन सप्तस्फटेन सप्तानां स्फटानां फणानां समाहारेण शालते शोभत इति यच्छत्रसप्तस्फटशाली, स चासौ नागाधिराजो भुजगेन्द्रस्तस्य सद्व्याजेन सम्यक्छलेन निषेवणं तस्य भगवतो नितरां सेवनं तेन, तत्पुण्येनेति यावत् । जडप्रधानत्वादिविरुद्धं पृथिव्यां नित्यम् आकल्पं महाशयत्वं महान् महनीय आयोsभिप्राय यस्य तत्त्वं समवाप सम्यग् अवाप्तवान् स जिनपः जिनेन्द्रः, पार्श्वः पार्श्वनाथः, अपायात् विनाशात्, पायात् रक्षतात् ।
तत्त्वतस्तु ड-लयोरैक्याद् जलप्रधानः, नास्ति पर उत्कृष्टो वेगवत्तायां येभ्यस्तेऽपराः, ते च ते भङ्गास्तरङ्गास्तांस्तैर्वा गच्छतीति अपरभङ्गः, सपङ्कजातः कर्दमकलापकलितः, समुद्रेऽपि कमलसद्भाव इति मतमाश्रित्य पङ्कजातैः कमलैः सहितः, कविजनरूढ्या च पङ्कजेन कमलेन सहितः सपक्वज:, नाभिजकमलोपलक्षितो हरिः पङ्केन सह जायन्त इति सपङ्कजाः, कर्दमकलिते समुद्ररूपैकाधारे जातत्वाद् चन्द्रादयो वेत्यर्थः, तं तान् अतति आधारतया गच्छतीति सपङ्कजातः, सगरान्वयः सगरपुत्रैरुत्खातत्वात् सगरजन्मा, मीचः निम्नः, अमृतं जलम्, आश्रितः, महांश्चासौ आशयो जलाशयश्च महाशयः, तत्त्वं महाशयत्वम् इत्थमिह विरोधाभासोपपत्तिः ।
"भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भय विच्छित्त्योः” इति, “पङ्कोऽये कर्दमे” इति, “जातं जात्योघ जनिषु" इति चानेकार्थसङ्ग्रहः, “स्फटा तु फण-दन्तयोः” इति मेदिनी, "आशयं विदुराधारं स्यादभिप्राय आशयः” इति शाश्वतः ॥ ५,६ ॥
वर्तमानशासनाधीशतया परमोपकारिणं चरमजिनवरं श्रीमहावीरं वन्दनवीथीमवतारयति — येनेत्यादिना । इटुं चन्द्ररूपं तं वीरं महावीरस्वामिनं वन्दे स्तौमि अभिवादये च । केन साधम्र्येण चन्द्ररूपत्वमित्याह — येनोदञ्चतीति येन महावीरस्वामिना, कौ पृथिव्यां मुद आनन्दस्य अच्छा स्वच्छा दुःखामिश्रितेत्यर्थः, विततिः सन्ततिः, उदञ्चति उद्भवति; पक्षे कौमुदस्य कुमुदसमूहस्य छत्रिततिर्युतिततिरुदेवीत्यर्थः । यश्च तारकोपासितः तारकैः संसारसागराद् उत्तारकैः मुनिजनैरित्यर्थः, पक्षे तारकाभिस्ताराभिः, उपासित आश्रितः । पुनः शश्वत् सुधाम आध्यात्मिकं तेजः, आश्रयन् दधानः, पक्षे सुधाम् अमृतम् आश्रयन् । सर्वाशासुखसम्पदां सर्वेषां भक्तजनानाम् आशायाः, तदनुरूपस्य सुखस्य तत्साधनरूपाया: सम्पदः सिद्धिसम्पदश्च प्रथयिता सत्यसङ्कल्पतया विस्तारयिता, पक्षे सर्वाशासु सर्वदिक्षु, खसम्पदां खस्य गगनमण्डलस्य सम्पदां चन्द्रिकादिकृतरमणीयत्वादि गुणोत्कर्ष रूपसम्पत्तीनाम्, बाहुल्यविवक्षया बहुवचनम् प्रथयिता जनयिता । यश्च पुनः चञ्चद्धरिणाङ्कितः चञ्चता पराक्रमेणोलता, हरिणा पादस्थेन रेखासन्निवेशविशेषनिर्मितसिंहाकारेण, अतिश्चिह्नितः, पक्षे हरिणेन स्वमण्डलस्थेन मृगाकारेण । यश्च पुनः शमनिधिः शमस्य प्रपञ्चोपरमस्य पक्ष सुधा शैत्यस्य निधिः । सद्वृतसौभाग्यभूः सद्वृत्तं सच्चारित्रं तस्य सौभाग्यस्य सुश्रोकत्वादेश्च पक्ष सत् समीचीनं वृत्तं वर्तुलाकृतिस्तेन यत् सौभाग्यं सौन्दर्थं तस्य भूः स्थानम् । तम्, अज्ञानतमोहरं जाड्यान्धकारापहारिणम्, पक्षे चाक्षुपशानरोधकान्धकारापहारिणम् | बुधवरं तव श्रेष्ठम्, पक्षे बुधस्य बुधग्रहस्य वरं श्रेष्ठम्, पितरमित्यर्थः । अत्र शेषानुप्राणितरूपकालङ्कारः ।
‘“धाम तेजसि गेहे च प्रभाव - जन्मनोरपि " इति, “आशा ककुभि तृष्णायाम्” इति च नानार्थसङ्ग्रहः, “वृत्तं वृत्तौ दृढे मृते । चरित्रे वर्तुले छन्दस्यतीता - ऽधीतयोर्धृते” ॥ इति, "भगोऽर्क- ज्ञान- माहात्म्य-यशो वैराग्य-मुक्तिषु । रूप-वीर्यं प्रयत्नेच्छा - श्री धर्मैश्वर्ययोनिषु” ॥ इति चानेकार्थसङ्ग्रहः, "बुधौ ग्रह -विचक्षणौ ” इति शाश्वतः, "वदुङ् स्तुत्यभिवादनयोः” इति धातुपारायणम् ॥ ७ ॥
wwwwwwwww
wwwwwwww