________________
तिलकमलरी।
विस्फूर्जत्स्फीतवाचो नवसुरकुरुहः शश्वदाकाङ्गिताना, दानेमीनः सदावस्थितिजुष उदरे शान्तिसिन्धोविहाय । कान्तां भौगी च राजी जितमदनमदस्तीर्थराजः प्रभासः, सर्वाधिव्याधिशून्यं शमनिधि ददतामक्षरस्थानमिष्टम् ॥ ४ ॥
[स्रग्धरा] दायकः, पक्षे तादृशेन वीर्येण पराक्रमेण, क्षेत्रभृद् धान्यादिक्षेत्रविशिष्टं यद् राज्यं तस्य भीतेः अवग्रहादिभयस्य दाता खण्डयिता निवारयितेत्यर्थः । स्निग्धैः लेहास्पदैः, दान्तराजैः दन्तिनां हस्तिनां समूहो दान्तम् । तत्र राजानः श्रेष्ठास्तैर्वाहनभूतैः, पक्षे वान्तानामिन्द्रियदमनवताम् , मुनीनामित्यर्थः, ये राजानः श्रेष्ठास्तैः सहेत्यर्थः । यः प्रविचरति प्रकर्षेण विहरति । सदाचारलब्धस्वरूपः सदाचारेण सम्यक्चारित्रेण लब्धं साक्षात्कृतं स्वस्थ आत्मनो रूपं तत्त्वं येन, पक्षे सदा सर्वदा चारेण गुप्तचरद्वारा लब्धमधिगतं खेषामात्मीयानां वशवर्तिनृपादीनां रूपं स्वभावो येन स तथा ।
अनाद्यपादे सभङ्गश्लेषानुप्राणितरूपकालङ्कारः, तदन्यत्र पादत्रये शेषविच्छित्या आध्यात्मिकाधिभौतिकसम्पद्वर्णनात् तदनुप्राणित उदातालङ्कारश्च बोध्यः ।
"क्षमा क्षान्तौ क्षितौ" इत्यनेकार्थसंग्रहः, "क्षेत्रं देहे कलने च केदारे सिद्धधामनि" इति, "ग्रामः पुरे जनावासे शब्दादिपूर्वको गणे" इति, "चारश्चर-प्रवासयोः" इति च नानार्थसंग्रहः, "दन्ती दन्तावलो हस्ती" इत्यमरः ॥ ३ ॥
आशैशवशीलशालिन नेमिनामानं द्वाविंशतितमं तीर्थङ्करम् , निजगुरुम् , सकलतीर्धतरांश्च वचनश्लेषभङ्गया मङ्गलपथमवतारयतिविस्फर्जेत्यादिना । प्रभासः प्रकृष्टा भासा कान्तिर्यस्याऽसौ तथा, भासतेयअनान्तगुरूपान्त्यलक्षणेन स्त्रीलिङ्गविहितेन अप्रत्ययेन भासाशब्दः सिध्यति, अत एव निर्मलशीलधारणाद् वा जितमदनमदः दूरीकृतकामगर्वः । तीर्थराजः तीर्धस्य द्वादशाङ्गीरूपप्रवचनस्य अर्थरूपेण प्रकाशनात् , तदाधारभूतस्य प्रथमगणधरस्य गुरुत्वात् , चतुर्विधश्रमणसङ्घस्य पूज्यत्वाद् वा राजा प्रभुः, तीर्थङ्कर इति भावः, गपतीर्थराज गुरुराजः, गुरुवर इत्यप्यर्थः, तीर्थशब्दो गुरावपि वर्तते । नेमिश्चासौ इनश्चेति नेमीनः, नेमिनाथनामा तीर्थकुरो नेमिसूरिनामा गुरुश्च । शमनिधि शमः सर्वप्रपञ्चोपरमो नितरां धीयते धार्यते भव्यैर्यस्सिस्तत् तथा, अत एव सर्वाधिव्याधिशून्यम, शून्यं निष्प्रपञ्चम्', अत एव इष्टं सर्वाभीष्टम् , अक्षरस्थानं मोक्षस्थानम् , सदा सर्वदा, वः युष्मभ्यम् , “व्यत्यये लुग् वा" [सि० हे. १.३.५३.] इति विसर्गलुकि 'व' इति, ददतां यच्छतु, ददिधातोरेकवचने रूपम् । कीदृशः सः ? इत्याह---विस्फूर्जत्स्फीतवाचः विस्फूर्जन्त्यः परितः स्फुरन्त्यः स्फीता भ्रम-प्रमाद-विप्रलिप्सादिदोषैरकलुषिता वाचा वाणी यस्य स तथा, भागुरिनये व्यजनान्तेभ्योऽप्यापः साधुतया वाचाशब्दः सिध्यति, अथवा विस्फूजितं स्फीतं च यथा स्यात् तथा वतीति विस्फूर्जत्स्फीतवाचः, विस्फूर्जरस्फीतयोः क्रियाविशेषणतया कर्मत्वनये कर्मोपपदादणा तत्सद्धिः। भाकाकितानाम् अभिलषितानाम्', शश्वत् सन्ततम् , दा दायकः, दाधातोर्विचा तत्सिद्धिः। नवसुरकुरुहः नवोऽभिनको लौकिककैवल्यलक्षणालोकिकोभयविधफलप्रसवितया प्रसिद्धदेववृक्षविलक्षणः, एवंविधः सुरकुरुहो देववृक्षः कल्पवृक्ष इति याक्त् , अथवा अनवो महिमांशे जीर्णः सुरकुरुहो येन, अविद्यमानो नवः स्तवो यस्य सोऽनवः, तधाभूतः सुरकुरुहो येन वा स तथा, स्तुतिवचनाद् नुधातोरलि नवशब्दसिद्धिः । भौगी भोगराजात्मजाम् , राजी नामैकदेशेन नामग्रहणाद् राजीमतीनाम्नीम् , कान्तां कमनीयवधूम् , भौगी भोगसम्बन्धिनीम् , कान्तां कमनीयाम् , राजी सामग्री वा, विहाय परित्यज्य, शान्तिसिन्धोः शमसागरस्य, उदरे मध्ये, सान्द्रात्मानन्दे इत्यर्थः, स्थितिजुषः स्थितिं कुर्वाणः, निवसन्निसर्थः, अत्रापि 'सदा' इति योज्यम् । भोगराजस्यात्मजां राजीमती परिणेतुं भूयसा समारम्मेण तदीयनिकेतनमायातोऽपि स भगवानुपहार्यमांसाय निबर्द्ध मृगनिकर निरीक्ष्यानुकम्पातिचेता विरज्य दीक्षामग्रहीदिति तदीयमितिवृत्तम् । सामान्येन तीर्थकराणां पक्षे-आकाहितानां दाने नवसुरकुरहोऽमी तीर्थराजो नोऽक्षरस्थानं ददतामित्यन्वयः, कीदृशास्ते ? विस्फूर्जत्रफीतवाचः, कान्तां भौगी राजी विहाय
शान्तिसिन्धोरुदरेऽवस्थितिजुषः, जितमदनमदः, प्रभासश्च, अत्र नक्कुरुह, तीर्थराज , विस्फूर्जत्स्फीतवाच , अवस्थितिजष, प्रभास नितमदनमद्' इति व्यञ्जनान्ताः शब्दा बहुवचनान्ता क्षेयाः, मदनं मद्, विपि रूपम् , अदसो बहुवचने 'अमी' इति, अस्मदश्चतुर्थीबहुवचने 'नः' अस्मभ्यमितिस्थाने, 'ददताम्' इति दाधातोर्बहुवचने रूपं यच्छन्विति तदर्थश्च, इति वचनश्शेषः ।
"अक्षरमपवर्गे स्यात्" इति, "राजा तु पार्थिने। निशाकरे प्रभौ शके यक्ष-क्षत्रिययोरपि" इति, "तीर्थ शास्त्रे गुरौ यो पुण्यक्षेत्रा-डवतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ इति चानेकार्थसङ्कहा, "तित्थं पुण चाउवण्णे समणसंघे पढमगणहरे वा" इत्यभिधानचिन्तामणिवृत्तिः ॥ ४ ॥