________________
टिप्पनक-परागविवृतिसंवलिता
लब्धाऽनल्पार्थसार्थो मकरधिमधरीकृत्य यः सत्तयाऽऽस्ते, प्रोद्यत्कलोलमालाऽपि जडपरिणतिर्गाहते यं च नित्यम् । सदंशो वारिराशौ सदमृतसरणिं संसृतौ संश्रितोऽस्तु, पोतः श्रीनाभिजातो विलसनवसतिधीवराणां नराणाम् ॥ २ ॥
लग्धरा] भव्यग्रामप्रशास्ता चरणजयकृतौ केसरी शास्त्रविद्योदचीर्येण दाता प्रतिदिनरजनि क्षेत्रभूद्राज्यभीतेः। यः स्निग्धैदान्तराजः प्रविचरति सदाचारलब्धखरूपः, शान्ति श्रीशान्तिनाथो जनयतु जमतान्तः क्षमाभूत्सुचक्री ॥३॥
[स्रग्धरा] ___ समुचितेष्टदेवतया जिनसामान्य मङ्गलपथमवतार्य युगादीशत्वाजिनविशेषमादिनार्थ मङ्गलपथमवतारयति-लब्धेत्यादिना । पोतः शिशुः प्रवहणरूपो वा, श्रीनाभिजातः श्रीनाभिनन्दनः, आदिनाथ इत्यर्थः । धीवराणां धिया बुद्धया वराः श्रेपास्तेषाम् , विद्वद्वराणामित्यधैः, प्रवहणपक्षे मासिकानाम् उपलक्षणत्वाजलयात्रिकानामित्यर्थः। विलसनवसतिः विलासास्पदम् । भस्तु भवतु । स केम साधम्र्येण तद्रूप इत्याह-लब्धानल्पार्थसाथैः लब्यो भूपालललामतयाऽधिकृतोऽनल्पः प्रचुरोऽधसार्थो हिरण्यधान्यादिधनराशियेन, यदा लब्धो गृहवासेऽपि निर्मलमति-श्रुता-ऽवधिज्ञानविककलितत्वाद् अधिगतोऽनल्पो विपुलोऽर्थसार्थ : शब्दार्थसमूहः पदार्थसमूहो वा येन, या लग्धः संयमावस्थायां केवलशान-केवलदर्शनाभ्यामशेषविशेषसामान्यधर्म पुरस्कारेण साक्षात्कृतोऽनल्पः सकलोऽर्थसार्थो वस्तुसमूहो येन, यद्वा लब्धः संवेगरङ्गेण प्राप्तोऽनत्यः सर्वविषयावधिकोऽर्थसाथों निवृत्तिनिकरो येन, यद्वा लब्धः कृतकृत्यतया प्राप्तोऽनल्पः सकलो. थिसमूहः प्रयोजनसमूहो येन स तथा, पक्षे लब्धः स्वस्मिन् धृतः पारप्रापणीयस्तथाविधधनराशियेन स तथा । मकरो धीयते पताकारूपेण धार्यते येन तं मकरधि कामम् , बाहुलकात् कर्तरि किः । सत्तया सौन्दर्यलक्षणया ब्रह्मचर्यलक्षणया वा उत्तमतया । अधरीकृत्य तिरस्कृत्य, य भास्ते वर्तते । पक्षे मकरो धीयते स्थाप्यते यस्मिन् , धीयते पुष्यते येन वाऽसौ मकरथिः समुद्रः, अधिकरणे कसरि घा किः, तं मकरधिम् । सत्तया उपरिस्थित्या, अधरीकृस्य नीचैः कृत्वेत्यर्थः । प्रकर्षण उद्यती उद्भवन्ती कलोलस्य आनन्दस्य माला परम्परा यस्थामसौ प्रोद्यत्कल्लोलमाला । जडपरिणतिरपि जडानां भोगभूमिकाले स्त्रीपुरुषयुगलरूपेण जातानामृजुजडानां मानवानाम्, अद्यतनानां वक्रजडानां वा, परिणतिः अन्तःकरणपरिणतिः, चित्तवृत्तिरित्यर्थः, अपिशब्दाद् ऋजुप्राज्ञानाम् । यं नित्यम् भवगाहते विषयीकरोति । पक्षे ड-लयोरैक्याद् जलपरिणतिः जलविकृतिरूमा, प्रोद्यती कहोलस्य महातरजस्य माला, यम् अवगाहते
आस्फालयति । सन् प्रशस्तो विशुद्ध इत्यर्थः, वंशः कुलं यस्य, पक्षे सन्तो दृढतरा वंशाः संवाहकवेणवो यमिन्नसौ सदशः। वाशम्दो विशेषणसमुच्चयाकः । अरीणा 'भेको धावति, तच धावति फणी, सर्प शिखी धावति' इति रीत्या परस्परप्रतिपक्षमावापन्नानां जीवानां राशी समूहस्वरूपाय संस्तो संसारे, सतः समीचीनस्य अमृतस्य मोक्षस्य सरणिं सम्यग्दर्शन-ज्ञान-चारित्ररूपं मार्गमिति सदमृतसरणिम्, संश्रितः प्राप्तः, सन्मार्गोपदेष्टेत्यर्थः । पक्षे वारिराशौ समुद्रे, संसृतौ संचरणार्थम् , सती समीचीनाम् , शैत्यसुखावहामित्यर्थः, अमृतसरणिं जलमार्गम् , आश्रितः ।
अत्रोपमेये श्रीनाभिनन्दने उपमानपोतामेदारोपस्य भिष्टविशेषणैः पोषणात् श्लेषानुप्राणितः साझरूपकालङ्कारः ॥
"अर्थों हेतौ प्रयोजने। निवृत्तौ विषये वाच्ये प्रकार-द्रव्य-वस्तुषु" इति, “पोतः शिशौ प्रवहणे" इति, "कल्लोलोडरौ हर्षविच्योः" इति जानेकार्थसङ्ग्रहः । "सन् साधौ धीर-शस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युभयोः स्त्रियाम् ॥ इति, “अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरि-देवयोः।। इति च मेदिनी। "वा स्याद् विकल्पोपमयोरेवार्थेऽपि समुच्चये ।" इत्यमरः ॥ २ ॥
शान्तिनिदान शान्तिनामानं षोडशं जिन मङ्गलपथमानयति-भन्यनामेत्यादिना । क्षमा शान्ति बिभ्रति धारयन्तीति क्षमाभृतो मुनयः, क्षमां पृथिवीं बिभ्रति पुष्णन्तीति क्षमाभृतो राजानश्च, तेषूभयेषु, चक्री चक्रवती श्रीशान्तिनाथः, जनतान्तः जनतान्तःकरणे, जनसमूहमध्ये वा, शान्तिम् अशिवोपशमं कामादिदुःखोपशान्ति वा जनयतु, गर्भ गतेनापि येनाशिवोपशमो विहितः सोऽधुना तु सुतरामेव विदध्यादित्यभिसन्धिः। कथमुभयत्र तस्य चक्रवतित्वमित्याह-भव्यग्रामप्रशास्ता भव्यानां मोक्षाहजनानां ग्रामः समूहस्तत्पशास्ता तदुपदेष्टा, पक्षे भन्यानाम् उर्वरक्षेत्ररमणीयानां आमाणाम् , तदुपलक्षितनगरजनपदानां च, निखिलभरतक्षेत्रस्थप्रदेशानामित्यर्थः, प्रशास्ता अधिकर्ता। आचरमस्य सदनुष्ठानस्य जयः, आचरणं चारित्रमभिव्याप्य जयो का, चरणस्य चारित्रस्य जयो वा रागाचान्तररिपूत्सारणेन उत्कर्षः, तस्य कृती सम्पादने, केसरी सिंहः, तद् विक्रमीत्यर्थः । पक्षे चशब्दस्य विशेषणसमुच्चयार्थकतया रणे संग्रामे जयकृतौ वैरिविजयक्रियायां सिंहश्च । शास्त्रविद्यया शास्त्रसम्बन्धिविद्यया, पक्षे शास्त्रस्येयं शास्त्री, तया विद्यया शास्त्रविद्यया, उदऋता उद्गच्छता वीर्येण आध्यात्मिकबलेन, क्षेत्रभृतां देहभृतां या राजिः समूहस्तस्सा अभीतेरभयस्य, प्रतिदिनरजनि सर्वदा, दाता