________________
॥ अहँ ॥ आशैशवशीलशालिने श्रीनेमीश्वराय नमः। श्रीजिनेन्द्रशासनकरसिक-धाराधीशासादितसरस्वतीबिरुद-कवीन्द्र
विप्राग्रणी-परमाईत-श्रीधनपालसुधीशेन विरचिता
तिलकमञ्जरी।
स वः पातु जिनः कृत्स्नमीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैकजन्तोर्याप्तं जगत्रयम् ॥ १॥ [ मविपुला ]
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् । सम्यग् नत्वा महावीरं रागादिक्षयकारणम् । उत्पन्नानन्तविज्ञानं देवपूज्यं गिरीश्वरम् ॥ १ ॥ तिलकमञ्जरीनाभ्याः कथायाः पदपद्धतिम् । श्लेषभङ्गादिवैषम्यं विवृणोमि यथामति ॥ २॥
MAMAMA
maamanam..
--
श्रीमत्तपोगच्छाधिपति-सर्वत स्वतन्त्र-शासनसम्राड्-जगद्गुरु-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण ज्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कतेन श्रीविजयलावण्यसूरिणा प्रणीता
__परागाभिधा विवृतिः। समं सर्वत्रैव स्फुरदमृतगुः कौशिकमुदं, विधत्ते सत्तेजःकुमुदवनसौभाग्यरसिकः ।
न मन्नापेक्ष्यः क्षपयतितरामान्तरतमो, जिनेन्द्रो भव्यानामभिनवदिनेन्द्रो विजयते ॥ १ ॥ [ शिखरिणी] --. - -
----- --- परागमङ्गलपद्यव्याख्या-व्याख्या परागपद्यानां हृद्यानां श्लेषशालिनाम् । तन्यते बालबोधाय सुधीमोदाय च स्फुटम् ॥१॥
समं सर्वश्रेत्यादि-सर्वत्रैव न तु कचिदेव, सममेव सहैव, युगपदेवेत्यर्थः, न तु पर्यायेण; अथवा तुल्यमेव यथा स्यात् तथा न तु कचिन्यूनाधिकम् , एक्शब्दस्योभयत्रान्वयात् ; स्फुरन्त्यः समवसरणवेलायां संचरन्त्यः, मोक्षरूपामृतप्रयोजकत्वाद् अमृतवद् आहादकत्वाद् वा अमृतानि गावो वाचो यस्य, अमृतबदुद्भासमानत्वाद् वा अमृतानि शरीररश्मयो यस्यासौ स्फुरदमृतगुः, कौशिकखेन्द्रस्य तवेलायां स्वर्गादापतितस्य मुदं विधत्ते जनयति विशेषेण पुग्णाति वा । सत्तेजसा परिपूर्णसम्यग्ज्ञानरूपान्तःप्रकाशेन, को: पृथिव्याः, तद्वासिजनानामित्यर्थः, मुदा अवनम् , मुदो वा अवनं रक्षणम् , तेन यत् सौभाग्यं सौन्दर्य तत्र रसिकः प्रणयीति सस्तेमःकुमुदवनसौभाग्यरसिकः । मन्दानाम् इनः श्रेयः, तेन नापेक्ष्योऽपेक्षणीयो न भवति, तस्य तत्राप्रत्ययात् । अन्तर्भवमान्तरम् , अज्ञानरूपं तमो ध्वान्तं क्षपयतितराम् अतिशयेन नाशयति, समूलमुन्मूलयतीत्यर्थः । प्रसिद्धदिनेन्द्रस्तु न तथा, प्रत्युत तस्योष्णगोरेव सत्वात् , कचिदेव कदाचिदेव च स्फुरणात् , कौशिकस्योलूकस्य मुदो व्याघातकत्वात् , मन्दाख्येन शनैश्चरेण स्वपितृत्वेनापेक्षणीयत्वात् , बातमस एव केवलंतिरोधायकवाच्च । तस्माद् भव्यानां मोक्षाईजनानां कृते, अभिनवदिनेन्द्रोऽपूर्वदिनेशरूपो जिनेन्द्रो विजयते सवोत्कर्षेण वर्तते।
अभिनवपदगम्यस्य प्रसिद्धदिनेन्द्रव्यतिरेकस्य लिष्टपदैः परिपोषणेन भयानुप्राणितव्यतिरेकालङ्कारः, द्वितीय-तुरीयचरणयोइछेकाम. प्रासश्चेत्यनयोः संसष्टिः । जिनेन्द्रादिविषयकरत्वाख्यभावरूपासंलक्ष्यक्रमव्यङ्गयरूपध्वनिसस्वेनोत्तमकाव्यत्वं तु सर्वत्रैव ।
"साकं सत्रा समं सह" इति, "वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्" इति, "महेन्द्र-गुग्गुलूलक-व्यालग्राहिषु कौशिकः" इति चामरः "गोशम्दः कथितो बाणे वाचि दिग्वज्रयोर्जले। पण्डनेत्रमयूखेषु भूमौ स्व0 च दृश्यते"॥ इति, "मम्दो मूढे रोगा सैरे भाग्ये शनैश्चरे" इति च नानार्थसंग्रहः ॥१॥
amamam