________________
तिलकमारी ।
१२७
तिर्यग्वलिततारकं चक्षुः [घ] । अद्राक्षीच दक्षिणेतरविभागे संनिहितमेव देवतायाः [ङ ], गिति दत्तवर्शनम् [च], निदर्शनमिवाशेषत्रिभुवनभीषणानाम् [छ ], अतिकृशप्रांशुविकरालकर्कशकायम् [ज], अलिकुलको मलेन प्रसरता समन्ततः कान्तिकालिना कज्जलमयीमिव सशैलद्वीपकाननामुर्वी कुर्बाणम् [झ ], अनतिपुराणशुक्तिकाश्रेणिसितभासा हासदूरप्रकटिताया दन्तपङ्क्तेः प्रतिमयेव पुर: स्फुरन्त्या स्थूलपृथुलया नख परम्परया प्रकाशितनिजप्रभातिमिरतिरोहितचरणयुगलाङ्गुलिविभागम् [ अ ], आबद्धास्थिनूपुरेण स्थवीयसा चरणयुगलेन रासभप्रोथधूसरं नखप्रभाविसरमनेकवातिकमण्डलभ्रमणलग्नं रक्षाभूतिरज इव दिक्षु विक्षिपन्तम् [ ८ ], अक्षुद्र सरलशिरादण्डनिचितेन निश्चेतुमुच्छ्राय मूर्ध्वलोकस्य सगृहीतानेकमा नरज्जुने वो पलक्ष्यमाणेन गगनसीमोल्लङ्घिना जङ्घाद्वितयेन निरन्तरारूढविततत्रततिजाल यमल तालशिखरनिषण्णमिव दृश्यमानम् [3]
टिप्पनकम् - प्रोर्थ - तुण्डस्, वातिका:- मन्त्रवादिनः [ ट ] |
प्रादुर्भूतदिदृक्षाविशेषः, तदनुसारेण तस्य- कौतुकस्य, वशेन, तिर्यग्वलितारकं तिर्थंकू - कुटिलं यथा स्यात् तथा, वलिताचलिता, सारका - कनीनिका यस्य तादृशम्, चक्षुः, सञ्चारयामास व्यापारयामास [ ध ] । च पुनः, अद्राक्षीत् पश्यति म, कम् ? 'एकं वेतालम्' इति दूरेणान्वयः, वेतालः - दैत्यविशेषः कीदृशं वेतालम् ? देवतायाः लक्ष्मीदेव्याः, सन्निहितमेव निकटस्थितमेव [ङ ], पुनः कीदृशं तम् ? झटिति शीघ्रम् दत्तदर्शनं दत्तं कारितम्, दर्शनं येन तादृशम् [च] ] | पुनः कीदृशम् ? अशेषत्रिभुवनभीषणानां त्रिभुवने, अशेषा:- समस्ता ये, भीषणाः- भयङ्कराः तेषाम्, निदर्शनमिव दृष्टान्तमिव [ छ ] । पुनः कीदृशम् ? अतिकृशप्रांशुविकराल कर्कशकायम् अतिशयेन कृशः, प्रांशुःउनतः, विकरालः-भयङ्करः, कर्कशः- कठिनः कायः शरीरं यस्य तादृशम् [ज] । पुनः कीदृशम् ? समन्ततः परितः, प्रसरता प्रचारं प्राप्नुवता, अलिकुलकोमलेन अलिकुलवत्-भ्रमरसमूहवत् कोमलेन - मनोहरेण, कान्तिकालिना खशरीरश्रुति कृष्णवर्णेन, सशैलद्वीपकाननां शैलैः पर्वतैः, द्वीपैः- जलमध्यस्थलैः, काननैः - वनैश्च सहिताम्, उर्वी पृथ्वीम्
जलमयीमिव कृष्णवर्णाञ्जनपूर्णामिव, कुर्वाणं रचयन्तम् [झ ] । पुनः कीदृशम् ? नखपरम्परया नखपङ्कया, प्रकाशितनिजप्रभा तिमिरतिरोहितचरणयुगलाङ्गुलिविभागं प्रकाशितः, निजप्रभातिमिरेण स्वकान्तिरूपान्धकारेण, तिरोहितः - अलक्ष्यतां गमितः, चरणयुगलस्य- पादद्वयस्य, विभागः पार्थक्यं येन तादृशम् कीदृइया तथा ? अनतिपुराणशुचिकाश्रेणिसितभाला अनतिपुराणा- किञ्चित् पुराणा, या शुक्तिका तस्याः, श्रेणिः - पङ्किरिव, सिता - शुभ्रा, भाःकान्तिर्यस्यास्तादृश्या, पुनः हासदूरप्रकटितायाः हासेन, दूरप्रकटितायाः- दूरपर्यन्ताभिव्य कायाः, दन्तपङ्क्तेः - दन्त समूहस्य, प्रतिमया प्रतिबिम्बेनेव, पुरः अमे, स्फुरन्त्या दीप्यमानया, पुनः स्थूलपृथुलया सान्द्रया पृधुलया विस्मृतया च [ अ ] । पुनः कीदृशम् ? आबद्धास्थिनूपुरेण आबद्धम् - आलम्बितम्, अस्थिनिर्मितं नूपुरं पादालङ्करणं यत्र तादृशेन, स्थवीयसा अतिस्थूळेन, वरणयुगलेन चरणद्वयेन, रासभप्रोथधूसरं रासभस्य-गर्दभस्य, प्रोथ:- तुण्डम्, तद्वद् धूसरं किञ्चित्पीत - श्वेतम् नखप्रभाविसरं नखकान्तिकलापम्, दिक्षु प्रतिदिशम्, विक्षिपन्तं विस्तारयन्तम्, किमिव ? अनेकवातिकमण्डलभ्रमणलग्नम् अनेकानि यानि वातिकानां मन्त्रवादिनाम्, मण्डलानि समूहाः, तेषु भ्रमणेन स्मशानभूम्यादौ परिभ्रमणेन, ल - सम्बद्धम्, भूतिरज इव रक्षांशानिव, 'रक्षाभूतिरज इव' इति पाठे रक्षायै- रक्षणाय, यद् भूतिरजः -- रक्षापदवाच्यभस्मांशास्तानिवेति व्याख्येयम् [ट ] । पुनः कीदृशम् ? जङ्घाद्वितीयेन जङ्घाद्वयेन, निरन्तरारूढव्रततिजालयमलतालशिखरनिषण्णमिघ निरन्तरं निर्विच्छिन्नं यथा स्यात् तथा, आरूढम् उपरि गतम्, वितत्तानां विस्तृतानाम्, व्रततीनलतानाम्, जालं - समूहो यस्मिंस्तादृशस्य यमलतालस्य-तालवृक्ष युगलस्य, शिखरे - उपरि, निषण्णम् उपविष्टमिव, दश्यमानं प्रतीयमानमिवेत्युत्प्रेक्षा, कीदृशेन तेन ? अक्षुद्रसरलशिराद्दण्डनिचितेन अक्षुद्राः - विस्तृताः, सरलाः-ऋजुभूताश्च, याः शिराः - चर्म तन्तवः, तद्रूपैर्दण्डैः, निचितेन-व्याप्तेन, अतः ऊर्ध्वलोकस्य उपरितनलोकस्य उच्छ्रायम् उच्चताम्, निश्चेतुं प्रमातुम्, संगृहीतानेकमान रज्जुनेव संगृहीताः- सञ्चिताः, अनेका मानरज्जवः - उन्मापकरज्जवो येन तादृशेनेव, उपलक्ष्यमान प्रतीयमानेन पुनः गगनसीमोल्लङ्घिना गगनस्य - आकाशमण्डलस्य, या सीमा - ऊर्ध्वावधि, तदुल्लङ्घिना, ततोऽप्यू