________________
१२३
टिप्पनक-परागविकृतिसंवलिता महिमानमारोपयन्ति, एतच यद्यपि अनिमित्तबन्धुना परोपकारपराधीनमानसेन महात्मना तेन दिव्यपुरुषेण स्वागभूषणीकृतमाभरणमेकं दत्तम् , तथापि त्वदीयमेतत् , अतो न मे शरीरस्पर्शमर्हति, दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् , तेन तावक एव परिवारलोके भवतु कस्यचित्, अनुभवतु वाऽदृष्टोदयान्मनुष्य लोकमागतमपि पुननिदशलोकस्थितिसमुचितं शोभातिशयम्' इत्यभिधाय तं हाररत्नं देवतायाश्चरणयोः पुरस्तादमुञ्चत् [क]।
अत्रान्तरे नितान्तभीषणो विशेषजनितस्फानिरास्फालिताशातटैः प्रतिफलद्भिरतिपरिस्फुटैः प्रतिशब्दकैः शब्दमयमिवादधानत्रिभुवनमुद्धान्तनयनतारकाकान्तिकर्बुरीकृतदिम्भिराकर्णितः सभयमुभयकर्णदत्तहस्ताभिरायतनदेवताभिः कुलिशताडितकुलाचलशिखरसमकालनिपतद्गण्डशैलनिवहनादोद्धुरो हासध्वनिरुदलसत् [ख] | उपश्रुत्य च तमश्नुतपूर्वमुर्वीपतिरुपजातविस्मयः पस्पर्श चेतसा कियन्तमपि हासम्, न तु स्वल्पमामपि संत्रासम् [ग] | अनुज्झितस्वभावावस्थितिश्च स्थित्वा मुहूर्तमुद्भूतकौतुकतदनुसारेण संचारयामास
उन्नावयन्ति । च पुनः, यद्यपि, अनिमित्सबन्धुना अकारणबन्धुत्वमापनेन, परोपकारपराधीनमानसेन परोपकारेपरहिताचरणे, पराधीनं-परायणे मानसं यस्य तेन, महात्मना महानुभावेन, तेन प्रस्तुतेन, दिव्यपुरुषेण देवेन, खार. भूषणीकृतं खशरीरभूषणतामापादितम् , एतत् निकटस्थम् , एकम् , आभरणम् आभूषणम् , दत्तं समर्पितम् , तथाऽपि मह्यं दानेऽपि, एतत् , त्वदीयं त्वत्सम्बन्धि, वर्तत इति शेषः । अतः अस्मात् कारणात् , मे मम, शरीरस्पर्शम् अ. सम्पर्कम् , न अर्हति तदयोग्यमस्ति, एतदिति शेषः, हि यतः, दिव्याः स्वर्गीया एव, मूर्तयः शरीराणि दिव्याभर. णानां वर्गीयालङ्करणामाम् , भाजनं पात्रम् , तत्कृतशोभाऽऽस्पदमित्यर्थः, भवतीति शेषः, तेन तस्मात् कारणात् , तापक पव त्वदीय एव, परिवारलोके परिजनवर्ग, कस्यचित् कस्यापि, भवतु अस्तु, भूषणमिति शेषः, वा अथवा, अष्टोदयात् भाग्योदयात् , मनुष्यलोकं मर्त्यभुवनम् , आगतमपि अवतीर्णमपि, त्रिदशलोकस्थितिसमुचितं त्रिदशलोके-देवलोके, स्थितः, समुचित-योग्यम् , शोभातिशयं शोभाविशेषम् , अनुभवतु प्राप्नोतु, इति, अभिधाय उक्त्वा, देवतायाः लक्ष्मीदेव्याः, चरणयोः, पुरस्तात् अग्रे, तं देवार्पितम् , हाररत्नं हारश्रेष्ठम् , अमुञ्चत् अत्याक्षीत् [क]। . .अत्रान्तरे अस्मिन्नवसरे, हासध्वनिः हासकृतशब्दविशेषः, उदलसत् आविर्वभूव, स कीदृशः ? नितान्त. भीषणः अत्यन्तभयङ्करः, पुनः आस्फालिताऽऽशातटैः आस्फालितानि-सङ्घटितानि, आशातटानि-दिक्तटानि, यैस्तादृशः, फलद्भिः परितः प्रसरद्भिः, अतिपरिस्फुटः अत्यन्तव्यक्तैः, प्रतिशब्दैः प्रतिध्वनिभिः, विशेषजनितस्फातिर विशेषेणं-अतिशयेन, जनिता-उत्पादिता, स्फातिः-वृद्धिर्यस्य तादृशः, अत एव त्रिभुवनं खर्गमर्त्य-पाताललोकान् , शब्द. भयमिव शब्दपूर्णमिव. आदधानः कुर्वाणः. पुनः आयतनदेवताभिः मन्दिरदेवताभिः, सभयं भयपूर्वकम्, आकर्णितः श्रवणगोचरतामापादितः, कीदृशीभिस्ताभिः ? उद्धान्तनयनतारकाकान्तिकर्बुरीकृतदिग्भिः उद्धान्तामाम्-उद् अर्ध्व भ्रमणान्वितानाम् , नयनानां यास्तारकाः-कनीनिकाः, तासां कान्तिभिः छविभिः, कर्दुरीकृता:-चिनिताः, दिशो यांभिस्तादशीभिः, पुनः उभयकर्णदत्तहस्ताभिः उभयो:-द्वयोरपि कर्णयोः-श्रोत्रयोः, दत्तो-गभीरध्वनिकृताघातभयेन निवेशितो, हस्ती याभिः तादृशीभिः, पुनः कीदृशः कुलिशताडितकुलावलशिखरसमकालनिपतण्डशैलनिवहमादोद्धरः कुलिशेन-वज्रेण, ताडितानि-प्रहृतानि, यानि कुलाचलानां-महापर्वतानां शिखराणि, तत्समकालं-तैः सहेयर्थः, निपतता गण्डशैलानां-पर्वतच्युतस्थूलपाषाणानाम् , निवहस्य-समूहस्य, नाद इव-ध्वनिरिव, उबुरः- गम्भीरः, "गण्डशैलास्तु ध्युताः स्थूलोपला गिरेः" इस्यमरः [ख] । उर्वीपतिः मेघवाहननृपतिः, अश्रुतपूर्व पूर्वमश्रुतम् , तं वनिम्, उपश्रुत्य श्रवणगोचरीकृत्य, उपजातविस्मयः उत्पन्नार्यः सन् , चेतसा मनसा, कियन्तमपि कतिपयमपि, हास पस्पर्श स्पृष्टवान् , हसितवानित्यर्थः, स्वल्पमात्रमपि ईषदपि, संत्रासं भयं तु न, पस्पशेति शेषः [ग] च पुनः, अनुमितलभावस्थितिः अनुजिता-अत्यक्ता, सभावस्थितिः-खभावमर्यादा, येन सादृशः, मुहूर्त क्षणम् , स्थित्वा, उद्भूतकौतुका