________________
१२४
टिप्पनक-परागविकृतिसंघलिता मे स्वर्गच्युतस्य, गृहीतस्तु कदाचिन्मनुष्यलोके लब्धजन्मनः पुनरानन्दयति दृष्टिम् , इष्टतमदर्शनं चैनममर. लोकाच्युता कालक्रमेण देव्यपि मे प्रियङ्गुसुन्दरी कदाचिदालोकयति । दर्शनाभ्यासजातपूर्वजातिस्मृतिश्च स्मरति रतिकराण्यसकृन्मया सहोपभुक्तानि स्वर्गवासक्रीडासुखानि, विरहदुःखदत्तोद्वेगाश्च प्रवर्तते. यथाशक्ति कुशलावाप्तिसाधके कर्मणि, एवं च तस्या अप्युपकृतं भवति । संभवन्ति च भवार्णवे विविधकर्मवशवर्तिनां जन्तूनामनेकशी जन्मान्तरजातसंबन्धैर्बन्धुभिः सुहृद्भिरथैश्च नानाविधैः सार्धमबाधिताः पुनस्ते संबन्धाः, स्मरणानि चात्यन्तविस्मयकराणि पूर्वजातेः, अतो 'नायमालापो मोहप्रलाप इति मे समर्थनीयः, कदर्थनीयश्च पुनरहं प्रार्थनाभङ्गदैन्यसंपादनेन' इत्युदीर्य कण्ठादवतार्य किश्चिदयनतेक्षणो दक्षिणकरेण लमधवलनखकिरणमालमुपस्थितनिरवसानसुरलोकविरहव्यथाविदीर्णहृदयोद्गीर्णगर्भामृतच्छटासारमिव हारमुपनिन्ये []। नरेन्द्रोऽपि तेन चर्मचक्षुषामगोचरेण तस्य साक्षान्निजदिव्यरूपाविष्करणेन, तेन स्मितोद्भेदपूर्वेण वक्षसि रचित
हारः, स्वर्गव्युतस्य स्वर्गाद् भ्रष्टस्य, ततोऽत्रावतीर्णस्येत्यर्थः, मे मम, दूरीभूत एव स्यादिति, गृहीतस्तु लब्धंस्तु, भवतेति शेषः, मनुष्यलोके मर्त्यभुवने, लब्धजन्मनः लब्धं जन्म येन तादृशस्य, ममेति शेषः, कदाचित् कस्मिंश्चित् काले, पुनः भूयोऽपि, दृष्टिं नेत्रम्, आनन्दयाते वर्तमानसमीपकाले आनन्दयिष्यतीत्यर्थः । अमरलोकात् देवलोकात्, च्यता अत्रावतीर्णा, मे मम, देवी प्रिया, प्रियङ्गसुन्दरी अपि, कालक्रमेण कालवशेन, इष्टतमदर्शनम् इष्टतमम्अतिशयेनाभिमतम् , दर्शनं यस्य तादृशम् , एनं हारम् , कदाचित् , आलोकयति आलोकयिष्यतीत्यर्थः । च पुनः, दर्शनाभ्यासजातपूर्वजातिस्मृतिः दर्शनाभ्यासेन-दर्शनपौनःपुन्येन, जाता, पूर्वस्याः, जाते:-जन्मनः, स्मृतिः-स्मरणं यस्यास्तादृशी सती, प्रियङ्गुसुन्दरी, रतिकराणि प्रीतजनकानि, मया सह, उपभुक्तानि अनुभूतानि, स्वर्गवासक्रीडा. सुखानि खर्गवासे-स्वर्गवासावस्थानसम्बन्धीनि यानि, क्रीडासुखानि-केलिसुखानि ताने, असकृत् पुनः पुनः, स्मरति स्मरिष्यति, एतद्दर्शनोबुद्धसंस्कारेणेत्यर्थः । च पुनः, विरहदत्तदुःखोद्वेगात् विरहदत्तेन-विरहजनितेन, दुःखेन य उद्वेगः-उद्धमः, तशाच, "विरहदाखदत्तोद्वेगाच' इति पाठे तु विरहदुःखेन दत्त उद्वेगो यस्यास्तादशी प्रियङ्गसुन्दरीत्यर्थो बोध्यः, कुशलावाप्तिसाधके शुभप्राप्तिजनके, कर्मणि कार्ये, यथाशक्ति, प्रवर्तते प्रवर्तिध्यते । एवं व अनया रीत्या च, तस्या अपि मदीयदेव्या अपि, उपकृतम् उपकारः, भवति भविष्यति, स्वगृहणेनति शेषः । भवार्णवे संसार. सागरे, विविधकर्मवशवर्तिनां शुभाशुभनानाकर्मविपाकवशङ्गतानाम् , जन्तूनां जीवानाम् , जन्मान्तरजातसम्बन्धैः जन्मान्तरेषु-पूर्वभवेषु, जातः-निष्पन्नः, सम्बन्धो यस्तादृशैः, नानाविधैः अनेकविधैः, बन्धुभिः पति-भ्रात्रादिभिः, सुहृद्धिः मित्रैः, अर्थः विभवैश्च, सार्धं सह, ते पुरातनाः, सम्बन्धाः, पुनः, अबाधिताः बाधरहिताः, सम्भवन्ति । पूर्वजातेः पूर्वभवस्य, स्मरणानि च, अत्यन्तविस्मयकराणि अत्याश्चर्यजनकानि, भवन्तीति शेषः । अतः अस्माद्धेतोः, अयम् , मे मम, आलापः प्रेमपूर्वकोक्तिः, मोहप्रलापः मोहेन-अज्ञानवशेन, प्रलापः-निष्फलोक्तिरिति, न, समर्थनीयः साधनीयः। च पुनः, प्रार्थनामङ्गदैन्यसम्पादनेन प्रार्थनाभङ्गेन यद् दैन्यं-दुःखम् , तत्सम्पादनेन, पुनः नियमेन, अहं न, कदर्थनीयः तिरस्करणीयः, इति, उदीर्य उक्त्वा, कण्ठादवतार्य ग्रीवादेशादधस्तादपसार्य, किञ्चिदवनतेक्षण: किञ्चिदवनते-अधोमुखे, ईक्षणे-नयने यस्य तादृशः सन् , दक्षिणकरेण दक्षिणहस्तेन, लनवलनखकिरणमालं लमा-संक्रान्ता, धवला-विमला, नखानां किरणमाला यस्मिन् तादृशं हारम् , उपनिन्ये उपहारीचकार । कमिव ? उपस्थितनिरवसानसुरलोकविरहव्यथाविदीर्णहृदयोगीर्णगर्भामृतच्छटासारमिव उपस्थितेन-प्राप्तकालेन, निर घसानेन निरवधिकेन, सुरलोकविरहेण-देवलोकविश्लेषण, या व्यथा-वेदना, तया विदीर्ण-भिन्नम्, यद् हृदयं तस्माकु, नीर्णायाः-निःसृतायाः, गर्भामृतच्छटायाः-अन्तःस्थितामृतप्रभायाः, आसारमिव धारासम्पातमिवेत्युत्प्रेक्षा [ अं]। .
नरेन्द्रोऽपि मेघवाहननृपतिरपि, परोपचारेषु परकृतस्वसत्कारविषये, प्रकृतिनिःस्पृहोऽपि प्रकृत्या-स्वभावेन, निःस्पृहोऽपि-इच्छाशूभ्योऽपि, अतिस्पृहयालुरिव लोलुभ इव, सत्वरं शीघ्रम्, उपसत्य तत्समीपं गत्वा, : अग्रतः