________________
तिलकमञ्जरी ।
९३
मुक्तामणिरात्मोत्पत्त्या स्पृहणीयतमतां नीतवानसि ?; का चेयं पुण्यभागिनी निरवद्यसर्वावयवा निवासः सर्वलक्षणानाम्, सिंहलद्वीप भूमिवि रत्ननिवहस्य पात्रमकृत्रिमस्य विनयादिगुणगणस्य पार्श्ववर्तिनी भवतः ? किं चाभिधानमस्याः ?; किं निमित्तं च कोटरोदरनिमग्नदावाग्निमुर्मुर इव महाद्रुमः. मूललनकीट इव पङ्कजाकरः. देह नष्ट हुदंष्ट्राशकल इव निशाकरः सान्तस्ताप इव लक्ष्यते भवान् ? इयमपि च कल्याणी किमिति म्लानदेहा पाणितलसंक्रान्तकज्जलकलङ्कपिशुनिताश्रुप्रमार्जना सद्यो विश्तेव रोदनाद् विज्ञायते कच्चिन्न सम्पन्न: प्रयत्नसंरक्षितस्यार्थस्य कस्यचिदतर्कितो विनाश: ? कच्चिन्न जातः केनापि प्रेमैकनिबन्धनेन बन्धुना सह प्रवासादिकारणसुलभ विप्रलम्भ: ? कचिन्न सम्भाविता दुर्लभता चिरं हृदि स्थापितस्य कस्यचिन्मनोरथस्य ? कथय यदि नातिरहस्यं श्रवणार्हं वाऽस्मद्विधानाम्' [ख] । इति कुतूहलाकुष्टेन पृष्टो महर्षिणा क्षोणिपतिरवोचत- 'भगवन् ! सकलदुःखितप्राणिवत्सलानां परमवायानः कायसंयमवतां सर्वदा परोपकारप्रवणवृत्तीनां भवादृशामपि रहस्यम -
उपहसितं - तिरस्कृतम्, सुरलोकस्य - देवलोकस्य, रामणीयकं - सौन्दर्यं यया तादृशी इयं नगरी का ? । च पुनः अस्यां नगर्याम्, महाभागः भाग्यवान्, त्वं कः ? । च पुनः, अमरोद्यानवेणुम् अमरोद्यानस्य - देवोपवनस्य, वेणुं वंशकाण्डम्, मुक्तामणिरिव आत्मोत्पत्त्या खोत्पत्या कतमं कम्, महापुरुषवंशं महापुरुषस्य - भाग्यशालि पुरुषस्य, वंश-कुलम्, स्पृहणीयतमताम् अतिस्पृहणीयताम्, नीतवानसि प्रापितवानसि । च पुनः पुण्यभागिनी सुकृतशालिनी, निरauraarat मनोहरनिखिलाङ्गा, सर्वलक्षणानां सौभाग्याशेषचिह्नानां कलशादिरूपाणाम्, निवासः आश्रयः । रानिवहस्य रत्नानां - मौक्तिकादीनाम्, निवहस्य- समूहस्य सिंहलद्वीप भूमिरिव, अकृत्रिमस्य स्वाभाविकस्य, विनयादिगुणगणस्य विनयलजादिगुणसमूहस्य, पात्रं स्थानम् । एतावद्विशेषणविशिष्टा भवतः पार्श्ववर्तिनी वामपार्श्वोपदेशिनी, इयं स्त्री, का ? अस्याः स्त्रियाः, अभिधानं नाम, किम् ? । च पुनः किंनिमित्तं केन हेतुना, भवान्, सान्तस्ताप इव अन्तस्तापेन - अन्तःखेदेन, सहित इव, लक्ष्यते मया प्रतीयते । क इव ? कोटरोदर निमग्नदावाग्निमुर्मुरः कोटरोदरे-वृक्षगुहाभ्यन्तरे, निमप्ताः - विलीनाः, दावाग्नेः - दावानलस्य, मुर्मुराः - कणा यस्मिंस्तादृशः, महाद्रुम इव महावृक्ष इव । पुनः मूललग्नकीटः मूललनाः - मूलसम्बद्धाः कीटा यस्य तादृशः, पङ्कजाकर इव कमलकाननमिव । पुनः देहनष्टराहुवंष्ट्राशकलः देहनष्टाः- देहे त्रुटिताः, राहुदंष्ट्राणां राहून्नतदन्तानाम्, शकलाः - खण्डा यस्य तादृशः, निशाकर इव चन्द्रमा इव च पुनः कल्याणी सौभाग्यवती, इयमपि भवत्पत्नी, म्लानदेहा मलिनाङ्गी, पाणितलसंक्रान्तकज्जलकलङ्कपिशुनिताश्रुप्रमार्जना पाणितले - हस्ततले, संक्रान्तं - संलमं यत् कज्जलं तदेव कलङ्कः- चिह्नं तेन पिशुनितं - सूचि - तम् अथुप्रमार्जनम् - अथुप्रक्षालनं यस्यास्तादृशी, रोदनात् सद्यः तत्क्षणे, विरता इव निवृत्ता इव, विज्ञायते प्रतीयते । प्रयत्नसंरक्षितस्य प्रयाससंरक्षितस्य कस्यचित् कस्यापि, अर्थस्य वस्तुनः, विभवस्य वा अतर्कितः आकस्मिकः, विनाशः, न सम्पन्नः न जातः कच्चित् किमु ?, "कश्चित् कामप्रवेदने" इत्यमरः । केनापि प्रेमैकनिबन्धनेन प्रेम्णःप्रीतेः, एकनिबन्धनेन - अद्वितीयहेतुना, बन्धुना सह प्रवासादिकारण सुलभः प्रवासादिकारणेन- देशान्तरनिवासादिकारणेन, सुलभः - अनायाससाध्यः, विप्रलम्भः विरहः, कश्चित् किमु ? । हृदि हृदये, चिरं स्थापितस्य धृतस्य कस्यचित् मनोरथस्य अभिलाषस्य, दुलर्भता सुःसाधता, न सम्भाविता सम्भावनागोचरतां गमिता, कच्चित् किमु ? । यदि अतिरहस्यम् अतिगोपनीयं न स्यादिति शेषः, अस्मद्विधानाम् अस्मत्सदृशानाम्, मुनीनामिति शेषः, श्रवणार्ह श्रवणयोग्यं स्यात् तर्हि कथय प्रकाशय [ख] । इति इत्थम्, कुतूहलाऽऽकृष्टेन औत्सुक्यप्रेरितेन महर्षिणा विद्याधरमुनिना, पृष्टः, क्षोणिपतिः राजा, अवोचत् तदुत्तरमुक्तवान्-भगवन् ! सकलदुःखित्प्राणिवत्सलानां सकलानां सर्वेषाम्, दुःखितप्राणिनाम् - आर्तजीवानाम्, वत्सलाः- त्राणपरायणाः तेषाम्, परमवाययमनःकायसंयमवतां परमः - उत्कृष्टः, यः, वाचः, मनसः, कायस्य - शरीरस्य च संयमः, तद्वताम्, सर्वदा सर्वस्मिन् काले, परोपकारप्रवणवृत्तीनां परोपकारप्रवणा - परोपकारोन्मुखा, वृत्तिः- वर्तनं येषां तादृशानाम् भवादशानामपि भवत्सदृशानामपि, रहस्यं गोप्यम्,
J