________________
९२
टिप्पनक-परागविवृतिसंवलिता विशेषेणानुग्रहम् ; इदं राज्यम् , एषा मे पृथिवी, एतानि वसूनि, असौ हस्त्यश्वरथपदातिप्रायो बाह्यः परिच्छदः, इदं शरीरम् , एतद् गृहम् , गृह्यतां स्वार्थसिद्धये परार्थसम्पादनाय वा यदनोपयोगार्हम्, अर्हसि नश्चिरानिर्वापयितुमेतजन्मनः प्रभृत्यघटितानुरूपपात्रविषादविक्लवं हृदयम्' [क] । इति व्याहरन्तं च तं समुपजातहर्षो महर्षिरुवाच- 'महाभाग ! सर्वमनुरूपमस्य ते महिमातिशयतृणीकृतवारिराशेराशयस्य, केवलमभूमिर्मुनिजनो विभवानाम्, विषयोपभोगगृनवो हि धनान्युपाददते, मद्विधास्तु संन्यस्तसर्वारम्भाः समस्तसङ्गविरता निर्जनारण्यबद्धगृहबुद्धयो भैक्षमात्रभावितसन्तोषाः किं तैः करिष्यन्ति ?; ये च सर्वप्राणिसाधारणमाहारमपि शरीरवृत्तये गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्तिकारणमिति बहु मन्यन्ते, मुक्तिमपि निरुत्सुकेन चेतसाऽभिवाच्छन्ति, ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकानर्थहेतुमर्थं गृह्णन्ति ?, परार्थसम्पादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां समर्थितम् , नान्यथा, तदलमत्र निर्बन्धेन; कथय तावत् केयमुपहसितसुरलोकरामणीयका नगरी? कश्चास्यां महाभागस्त्वम् ? कतमं च महापुरुषवंशममरोद्यानवेणुमिव
ल्लाभाय अधिकतरायाः-अत्यधिकायाः, कल्याणसम्पदः-स्वशुभसम्पदः, लाभाय-प्राप्तये, भगवता, विशेषेण असाधारणरूपेण, वक्ष्यमाण प्रकारेणेत्यर्थः, क्रियमाणम्, इच्छामि अभिलषामि । कथम् ? इदं प्रत्यक्षरूपं राज्यम् । एषा अभिमुखवर्तिनी, मम मत्स्वामिकेत्यर्थः, पृथ्वी । एतानि वसूनि धनानि । असौ परोक्षवर्ती, हस्त्यश्वरथपदातिप्रायः हस्तिनः, अश्वाः, रथाः, पदातयः-पन्यां गन्तारो जनाः, प्रायः-प्रचुरा यस्मिन्नीदृशः, बायः परिच्छदः परिवारः । इदं शरीरं मामको देहः । एतद् भवदधिष्ठितशिखरम् , गृहं प्रासादः । अत्र एधु वस्तुषु मध्ये, यत् , उपयोगार्हम् उपयोगयोग्यं भवेत् तत् , स्वार्थसिद्धये स्वप्रयोजनसम्पादनाय, परार्थसम्पादनाय वा पर प्रयोजनसाधनाय वा, गृह्यतां वीक्रियताम् । जन्मनः प्रभृति अघटितानुरूपपात्रविषादविवम् अघटितम्-अप्राप्तम् , यदनुरूपम्-अनुकूलम, अभिमतमित्यर्थः,पात्रं त्वादृशं सद्गुणभाजनम् , तस्य-तत्प्रयुक्तेन, विषादेन-खेदेन, विक्लवं-विह्वलम्, नः अस्माकम् , एतत् , हृदयम् अन्तःकरणम् , चिरात् चिरकालपर्यन्तम् , निर्वापयितुं शमयितुम् , अर्हसि योग्योऽसि [क]। समुपजातहर्षः तदीयविनयपूर्णोक्तिप्राप्तप्रसादः सन् , महर्षिः असौ मुनिः, इति पूर्वप्रकारेण, व्याहरन्तं ब्रवन्तम्, तं राजानम . उवाच । महाभाग! मह तिशयतृणीकृतवारिराशेः महिमातिशयेन गाम्भीर्यातिशयेन, तृणीकृतः-तृणवत्तुच्छतामापादितः, वारिराशि:-समुद्रो येन तादृशस्य, अस्य, ते तव, आशयस्य अभिप्रायस्य, सर्वम्, अनुरूपम् अनुकूलमेव, भविष्यतीति शेषः, केवलं किन्तु, मुनिजनः, विभवानां धनानाम् , अभूमिः अनाश्रयः, अस्तीति शेषः 1 हि यतः, विषयोपभोगगृनवः विषयाणांकामिनी-काञ्चनादीनाम् , उपभोगे-तज्जन्यसुखानुभवे, गृध्रवः-लुब्धा जनाः, धनानि उपाददते गृह्णन्ति, मद्विधास्तु मादृशास्तु, सन्यस्तसारम्भाः परित्यक्तलौकिकसर्वव्यापाराः, समस्तसङ्गविरताः दारापत्यादिसकलसम्बन्धनिवृत्ताः, निर्जनारण्यबद्धगृहबुद्धयः निर्जने-जनसामान्यशून्ये, अरण्ये-वने, बद्धा-दृढीकृता, गृहबुद्धियस्तादृशाः, भैक्षमात्र. भावितसन्तोषाः भैक्षमात्रेण-केवलभिक्षया, भावितः-सम्पादितः, सन्तोषो यैस्तादृशाः, तैः राज्यादिभिः, किं करिष्यन्ति ? न किमपीत्यर्थः । च पुनः, शरीरवृत्तये स्वशरीरस्थितये, न तूपभोगाय, सर्वप्राणिसाधारणं प्राणिसामान्यापेक्षितम् , आहारमपि अन्नादिकमपि, गृहन्ति खादन्ति, शरीरमपि खशरीरमपि, धर्मसाधनं “शरीरमाद्यं खल धर्मसाधनम्" इति न्यायेन धर्मप्रयोजकम् , इति हेतोः, न तु विलासार्थम् , धारयन्ति रक्षन्ति, धर्ममपि मुक्तिकारणं नित्यनिरतिशयानन्दरूपमुक्तिप्रयोजकम् , इति हेतोः, न स्वैहिकफलाय, बहु सुष्छु, मन्यन्ते, मुक्तिमपि तदाख्यं सर्वोत्कृष्टपुरुषार्थमपि, निरुत्सुकेन औत्सुक्यंशून्येनेव, चेतसा अभिवाञ्छन्ति स्पृहयन्ति, ते मुनयः, कथं कस्माद्धेतोः, असारसांसारिक सुखप्राप्त्यर्थम् असार-तुच्छभूतम् , यत् सांसारिक-लौकिकम् , सुखं-भोगविलासादिकम् , तत्प्राप्त्यर्थम् , अनेकानर्थहेतुम् अनेकेषां-कामक्रोधादीनाम् , अनर्थानाम् , हेतु-जनकम् , अर्थ राज्यादिकम् , गृहन्ति ? न कथमपि गृहन्तीत्यर्थः । तेषां मुनिजनानाम , परार्थसम्पादनमपि परकीयप्रयोजननिष्पादनमपि, धर्मोपदेशदानद्वारेण धर्मोपदेशानुष्ठानद्वारैव, शास्त्रेषु समर्थितं निरूपितम् , अन्यथा धनदानद्वारा न, तत् तस्माद्धेतोः, अत्र राज्यादिग्रहणविषये, निर्बन्धेन आग्रहेण, अलं वृथा । कथय परिचायय, यत् , तावदिति वाक्यालङ्कारे, उपहसितसुरलोकरामणीयका