________________
७४
स्याद्यर्थप्रकाशे
इत्यादिवाक्यानां समानकर्तृ कत्वादिसम्बन्धेन सुधाकर्मकभोजनाभावस्य बोधकतायामप्रामाण्यापत्तेः, वृत्त्यनियामक - सम्बन्धावच्छिन्न प्रतियोगित्वाप्रसिद्धः ।
पटः पटत्वेन सह भासते इत्यादी पटत्वनिष्ठविषयतायाः समानकालीनत्वमिव समानप्रतियोगित्वमप्यर्थः विभिन्नज्ञानीयविषयतायां तादृशाप्रयोगात् । पुत्रेण सह गतिरित्यादौ कर्तृत्वाद्यन्वयिक्रियासमभिव्याहारविरहेण शक्या पुत्रकर्तृकगतिकालीनत्वादेर्बोधयितुमशक्यत्वादनन्यगत्या सहादेस्तादृशार्थे निरूढलक्षणा । पुत्रेण सह स्थूल इत्यादावपि समभिव्याहृतनामार्थतावच्छेदकीभूतस्थौल्यादिसमानकाली नत्वे, तथा च पुत्रवृत्तिस्थौल्यकालीनस्थीत्य वानित्याकारस्तत्र बोधः । 'पल्या सहाग्निमादध्या' दित्यादौ पत्नीकतृकस्वाग्न्याधानस्यालीकत्वेन तत्समानकालीनत्वस्य प्रमापयितुमक्यत्वात् - सामानाधिकरण्यपर्यवसितसहभावमात्रं सहस्यार्थः यथा 'घटेन सह पटवद्गृह' मित्यादी । एतेन 'यत्कर्तव्यं तदनया सह' इत्यादिको विधिरपि व्याख्यातः । 'पुत्रेणागत' इत्यादी विनापि सहादिप्रयोगं तदर्थस्य प्रतीतेस्तृतीयाया एव तत्र कर्तृत्वाद्यवच्छिन्नागतिसमानकालीनत्वादिकमर्थः तत्सन्निविष्टे च कर्तृत्यादौ प्रकृत्यर्थस्य पुत्रादे राधेयत्वेनान्वयः इत्याहुः ।
तत्र
पदवाक्यरत्नाकरकार - म० भ० गोकुलनाथोपाध्यायानुयायिनस्तु - सहार्थेन युक्तेऽप्रधानक्रियाकारके तृतीया भवति । तत्र सहार्थः सामानाधिकरण्यम्, तच्च दैशिकेन कालिकेन दैशिककालिकोभयेन च सम्बन्धेन घटितत्वात् त्रिविधम् । 'वह्निना सह धूमो भस्म वा' इत्यत्र संयोगिसंयुक्तत्वं सहार्थ:, तृतीयायाः प्रतियोगित्वमर्थः स चाद्यसंयोगेऽन्वेति । एवं वह्निप्रतियोगिताकसंयोगवत्संयुक्तो धूम इत्यन्वयबोध: 1 'रूपेण सह रस' इत्यत्र समवायिसमवेतत्वं सहार्थ:, तृतीयार्थस्य प्रतियोगित्वस्य आद्यसमवायेऽन्वयः, 'द्रव्यत्वेन सह धूम' इत्यत्र समवायिसंयुक्तत्वं सहार्थः वृती - यार्थप्रतियोगित्वस्य समवायेऽन्वयः । वह्निना सह घूमसंयोग इत्यत्र संयोगिसमवेतत्वं सहार्थः तृतीयायाः प्रतियो
गित्वं तच्च संयोगेऽन्वेति । करण्योदाहरणानि ।
एतानि दैशिकसामानाधि
कालिकसमानाधिकरण्येन यथा- जातीपुष्पेण सह - नीपपुष्पमित्यत्र कालस्वरूपेण कालिक विशेषणतासम्बन्धेनाधिकरणे तेन सम्बन्धेनाधेयत्वं सहार्थः । कालिक विशेषणतथाऽन्वयि प्रतियोगित्वं तृतीयार्थः । अथ वा काल एवं सहार्थ:, कालिकाधिकरणत्वस्य तृतीयार्थस्य काले, कालस्य कालिकाधेयतासम्बन्धेन नीपपुष्पेऽन्वयः ।
दैशिककालिकोभयेन सम्बन्धेन सामानाधिकरण्यस्य यथा- ‘पल्या सह यजमान' इत्यत्र संयोगसंयुक्तत्वं कालश्चोभयं सहार्थः ; प्रतियोगित्वम्, कालिकाधिकरणत्वं चोभयं तृतीयार्थः । प्रतियोगित्वस्याद्यसंयोगेऽन्वयः, कालिकाधिकरणत्वस्य काले, कालस्य कालिकाधेयतया यजमानेऽन्वयः । एवं भारमनुद्वहत्सु सह गच्छत्सु पुत्रेषु 'सहैव दशभिः पुत्रैर्भारं वहति गर्दमीत्यत्रापि दर्शितोभयं सहार्थः, तृतीयार्थोऽपि प्रतियोगित्वं, कालिकाधिकरणत्वमित्युभयम् । पूर्ववदेवान्वयो वोध्यः ।
एतद्रीत्या 'पुत्रेण सह स्थूल' इति वृत्त्युक्तोदाहरणे स्थूलत्वं तृतीयार्थः, तत्र पुत्रस्याधेयतयाऽन्वयः तृतीयार्थस्य स्थूलत्वस्य कालिकाधिकरणतया सहार्थे काले कालस्याधेयतया पदार्थकदेशे स्थूलत्वेऽन्वयः । तथा च पुत्रस्थूलत्वसमानकालिक - स्थूलत्ववात् पितेत्यन्वयबोधः । पुत्रेण सह गोमान् पितेत्यत्र स्वामित्वं तृतीयार्थः तस्य निरूपकतासम्बन्धावच्छिन्नसामानाधिकरण्ये सहार्थे प्रतियोगितयाऽन्वयः, सहार्थस्य मत्वर्थेकदेशे गोविशेषिते स्वामित्वेऽन्वयः । एवं च पुत्रस्वामित्वसमानाधिकरणगोस्वामित्ववान् पितेत्यन्वयबोधः । शिष्येण सह ब्राह्मण इत्यत्र ब्राह्मणत्वं तृतीयार्थः, समवायसम्बन्धावच्छिन्न सामानाधिकरण्यं सहार्थः, तथा च शिष्वसमवेतब्राह्मणत्ववान् आचार्य इत्यन्वयबोधः । अप्राधान्यं च तृतीयाप्रकृतेर्वास्तविकं बोध्यं न तु वैवक्षिकम् तेनाचार्येण सह पूज्यः शिष्यः इत्यादयो न प्रयोगाः ।