________________
190
याद्यर्थप्रकाशे
रमदण्डपुरुषव्यावृत्तौ दण्डी पुरुष इति निश्चयो जायते । तत्र पुरुषत्वेन केनावच्छिन्ना प्रतियोगिताऽनुयोगिता वैकस्या व्यावृत्त ेः, तदनुयोगिता दण्डेनाप्यवच्छिद्यते, तत्प्रतियोगि तावच्छेदकीभूतदण्डाभावप्रतियोगित्वं च दण्डे प्रतीयत इति दण्डी पुरुष इत्यत्र दण्डः पुरुषविशेषणम् । यत्र तु प्रतियोगित्वानुयोगित्वयोकधर्मावच्छिन्नत्वं तत्र पद्मत्वावच्छेदेन कुसुमान्य पत्रादिव्यावृत्त ेः प्रत्ययेऽपि कुसुमत्वं न विशेषणं पद्मस्येति । इदं तु विशेषणत्वमेधर्मविशिष्टेऽप र विशेषणस्य बोध्यम् । सामान्यतो विशेषणत्वं तु व्यावृत्यधिकरणतावच्छेदकतया व्यावृत्ति प्रतियोगितावच्छेदकीभूता - भावप्रतियोगितया च प्रतीयमानत्वम् । यथा दण्डीत्यत्र - कस्या एव व्यावृत्त ेः प्रतियोगितावच्छेदकीभूताभावप्रति योगितयाऽधिकरणतावच्छेदकतया च दण्डो व्यावृत्तिबुद्धौ भासते इति सामान्यतो विशेषणत्वपि दण्डस्य दण्डी पुरुष इत्यत्र सम्भवति । अत एव चिन्तामणी " दण्डी पुरुष इति ज्ञानानन्तरं दण्डवत्यदण्डव्यावृत्तिरवगम्यते इति प्रत्याय्य व्यावृत्यधिकरणता पुरुषस्य दण्डेनावच्छिद्यते, न पुरुषत्वेन ; अतिव्याप्तेः” इयुक्तम् । सामान्यतो विशेषत्वं व्यतिरेकिधर्ममात्रस्य सम्भवति केवलान्वयिनि धर्मो व्यावृत्त प्रसिद्ध या विशेषणत्वसामान्याभाव इति ।।
प्रतीयमानत्वगर्भ विशेषणत्वं व्यावृत्त बुद्धौ न विषयः किं तु तदनुव्यवसायादी । काकवन्तो देवदत्तस्य गृहा इत्यत्र देवदत्तस्वत्वशून्यगृहव्यावृत्तिः संस्थानविशेषवत्त्वावच्छेदेन प्रतीयते, न तु काकवत्वं तदवच्छेदकत्वं तदसत्त्वकालेऽपि दर्शितव्यावृत्त ेः प्रतीतेश्च सत्वात्- न्यूनवृत्तित्वादिति काको न विशेषणमपि तु व्यावृत्तिबुद्धिप्रकारतया व्यावृत्त्य वच्छेदकोपस्थापकतया वा व्यावत कतयोपलक्षणम् । तथा च व्यावृत्यधिकरणतावच्छेदकत्वे सति व्यावर्तकत्वमुपलक्षणत्वमत एव चिन्तामणी प्रत्याय्य व्यावृत्त्यधिकरणतावच्छेदकत्वे सति व्यावर्तकं विशेषणं तदन्यद्द्यावर्तकमुपलक्षणमित्युक्तम् । व्यावृत्यधिकरणताया अवच्छेकत्वं स्वरूपसम्बन्धविशेषः । अत एव तदवच्छेदकत्वं संयोगा
अत
दाविव तेन समं स्वरूपसम्बन्धविशेषे इति पक्षधर मिश्र - रुक्तम् । व्यावर्तकत्वं व्यावृत्तिबुद्धिप्रयोजकबुद्धिविषयत्वं व्यावृत्यबोधकालेऽपि विशेषणत्वबुद्धिप्रसङ्गवारणार्थमुपात्तम् । अत एव चिन्तामणी व्यावृत्त्युल्लेखानन्तरमेव विशेषणत्वबुद्धिरित्युक्तम् । न च व्यावृत्त' रबोधकाले तदवच्छेदकत्वाग्रहसम्भवेनैव विशेषणत्वबुद्ध ेनं प्रसङ्ग इति वाच्यम्; शब्दादिना तदवच्छेदकत्वग्रहसम्भवात् । एवादण्डव्यावृत्त्यधिकरणतावच्छेदको दण्ड इति शब्दादवगमेऽपि तद्वत्यदण्डव्यावृत्यप्रतीतेः सर्वसिद्धत्वादिन्द्रियासन्नि कर्षादिना प्रत्यक्षादिसामग्र्यभावादिति पक्षधर मिश्र रुक्तम् एवमीदृश विशेषणत्वाभाववद्द्यावर्तकमुपलक्षणं वस्तुसत्युपलक्षणे नाम्नोपस्थापिते सम्बन्धमात्रं तृतीयार्थः । 'कान देवदत्तगृहा' इत्यत्र काकसम्बन्धिनो देवदत्तगृहा इत्यन्वयबोधः । प्रमेयत्वादेरव्यावर्तकत्वेनोपलक्षणत्वमपि न सम्भवति, इति प्रमेयत्वेन घट: इति न प्रयोगः । अत एव 'प्रकारो द्विविध:' इत्यत्र प्रकारपदं व्यावर्तकपरतया पक्षधरमिश्रैर्व्याख्यातम् ।
}
यस्तु पशुना रुद्र यजेतेत्यत्र पशुगतमेकत्वं विशेषणम्, ग्रहं संमाटीत्यत्र ग्रहगत मेकत्वमुपलक्षणमिति छान्दसानां व्यवहारः, स च विशिष्टान्वयनिबन्धनः । पशुनेत्यादी तृतीयार्थ कर्मत्वे पशोरेकत्वविशिष्टस्थान्वयः । यथा चैकत्ववैशिष्ट्यं पशौ तथोपपादितं वचनार्थविवरण | ग्रहं संमात्यादावेकत्वविशिष्टस्य ग्रहस्य संमार्ग कर्मत्वेनान्वय इति विशिष्टान्वये पशोरेकत्वावच्छिन्न प्रतियोगिताकः संसर्ग भासते इत्येकः पक्षः । एकत्वे पशी च प्रकारता पर्याप्तति द्वितीयः । एकत्वावच्छिन्ना पशुप्रकारताऽय वा पशुविशेष्यतया कर्मतादिविशेष्यतया च साक्षात्परम्परासम्बन्धद्वयावच्छिन्न मे वैकत्वप्रकारत्वं निरूप्यत इति तृतीयः । तथा चेदृशविशिष्टविषयतामापत्रं विशेषणम्, अनापन्नमुपलक्षणमिति । अतएव चिन्तामणी 'उद्देश्यान्वयप्रतियोगी धर्मो विशेषणम्, तदन्यदुपलक्षणमिति सिद्धान्तपर्यवसानम् । काकवन्तो देवदत्तगृहा इत्यत्र उद्देश्याया देवदत्तस्वत्वशून्य