________________
द्वितीयार्थप्रकाशः
आश्रयावच्छिन्नत्वेऽपि व्यापारात्मकफलनिष्ठावच्छेदकतायां साक्षादाश्रयावच्छिन्नत्वविरहेण व्यापारात्मकफलाश्रयत्वात् । यत्तु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रहविशेष्यांशे साक्षात्कारत्वं तच्च क्रियायामेव न संयोगांशेऽपीति नाग्नेजुहोतिकर्मतापत्तिरिति समाधानान्तरं केचिदाहुः, तदसत् ; अजां ग्रामं नयतीत्यादी संयोगावच्छिन्न क्रियानुकूलव्यापारादिरूपे धात्वर्थे संयोगादेः साक्षादप्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्या नीवहादेद्विकर्मकत्वव्याघातात् । किञ्चैवं भूमौ पततीत्यादौ पतधातुवृत्तिग्रहविशेध्यांशे साक्षात्प्रकारीभूतस्य संयोगरूपफलस्य भूमौ सत्त्वात् भूम्यादावपि कर्मत्वापत्तिः । यदि चोक्तदोषवारणाय अधिकरणानवच्छिन्नत्वं साक्षात्प्रकारांशे विशेषणमुपादीयते तदा तेनैव अग्नौ घृतं जुहोतीत्यादावग्न्यादेः कर्मत्वापत्तिवारणात् - साक्षात्प्रकारत्वनिवेशादिरूपोक्तप्रयासस्य वैफ - ल्यमेव ।
यत्तु अधः संयोगावच्छिन्नस्पन्दो न पतधात्वर्थः किन्तु गुरुत्वजन्यतावच्छेदक जाति विशेषावच्छिन्नस्पन्द एव; अत एव फलावच्छिन्नव्यापाराबोधकत्वान्न तस्य सकर्मकत्वमिति, तन्न; फलस्य धात्वर्थाघटकत्वे स्पन्द एवं सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलावृत्तितया भूतले पततीति प्रयोगानुपपत्तिः । पर्णादिगतस्पन्दस्य परम्परया भूतलादिवृत्तित्वमिति चेत्तहि वृक्षात्पततीतिवद् वृक्षे पततीत्यपि स्यात् । स्वाश्रयप्रतियोगिक विभागवत्त्वरूपपरम्परासम्बन्धेन पर्णवृत्तिस्पन्दस्य वृक्षेऽपि सत्त्वात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेऽपि अत्र ( भूमी पततीत्यादी ) व्युत्पत्तिवैचित्र्यात् अधःसंयोगरू पधात्वर्थ.. तावच्छेदक एव तदन्वय इत्यदोषः । अन्ये तु भूम्यादेः कर्मत्वाविवक्षायां भूमि पततीति प्रयोग इष्ट एव । अत एव नरकं पतित इत्यादिविग्रहे द्वितीयासमासविधानमुपपद्यते । एवं च धात्वर्थतावच्छेदकतावच्छेदकफले द्वितीयार्थान्वय एव आश्रयानवच्छिन्न फलोपस्थितेरपेक्षा अग्नि जुहोतीति वारणाय स्वीकरणीयेति वदन्ति, तदपि न
४५
विचारचारु; तथा सति भूम्यादिपदोत्तरं कदाचित्सप्तमी कदाचिद्द्वितीयेत्यनियमप्रसङ्गात् । व्यापारांशे आधेयत्वा-न्वयविवक्षायां सप्तमी फलांशे तदन्वयविवक्षायां द्वितीयेतिनियमस्य भूतले पततीतिप्रयोगानुपपरयुक्तयुक्त्या फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणीयतया - वक्तुमशक्यत्वात् । अथैवमपि नरकं पतित इति प्रयोगस्य कथमुपपत्तिः, नरकस्य अधिकरणानवच्छिन्न धात्वर्थतावच्छेदकफलाश्रयत्वाभावात् । न च तत्र नरके पतित इत्येव प्रयोगः साधुरिति वाच्यम्, द्वितीयान्तस्य पतितशब्देन समासविधायकानुशासनविरोधात् - इति चेत्रादुः ---अधःसंयोगावच्छिन्न स्पन्दार्थ कपतधातु समभिव्याहृतात् सुखास-म्भिन्नदुःखभोगावच्छेदक प्रदेश विशेषार्थं कनरकपदाद् द्वितीया नेष्यत एव तत्र सप्तम्या एवेष्टत्वात् ; किन्तु भोगानुकूलपातित्यार्थ कपतधातुसमभिव्याहृतात् सुखासम्भिन्न दुःखार्थ - कनरकपदादेव विषयत्वरूपकर्मत्वार्थिका द्वितीया इष्यते, तस्य च विषयत्वस्य भोगेऽन्वयात् नरकं पतित इत्यतो दुःखविशेषविषयकभोगानुकूलपातित्यवानित्यर्थः प्रतीयते । एतादृशार्थं एव च द्वितीयान्तस्य पतितशब्देन सह समासा - नुशासनमपीति ।
( कतिपयधातुसमभिव्याहारे द्वितीयार्थान्वयविवेकः )
ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वं सविशिष्टपरस्वत्वानुकूला इच्छा दाधात्वर्थ:, तत्र तादृशस्वत्व ( विशिष्टपरस्वत्व ) रूपधात्वर्थतावच्छेदकफल एव द्वितीयार्था ( धेयत्वा ) न्वयः । उपेक्षायामतिव्याप्तिवारणाय परस्वत्वनिवेशः । स्वत्वं च यथेष्टविनियोगार्हत्वम् । यत्र स्वधनस्य परसाधारणीकरणं तत्रापि परस्वस्वानुकूलेच्छायाः सत्त्वाद् दानव्यवहारापत्तिरतः स्व स्वत्व -- ध्वंसविशिष्टेत्युक्तम्, तथा च तत्र स्वस्वत्वस्यापि सत्त्वा - नोक्तापत्तिः । उपेक्षा च ममेदं माभदित्याकारिका, तत्र