________________
[ख]
ग्रन्थानालोच्य स्वकीयनंपुण्यं च समुपयोज्य विहितोऽयं निबन्धः छात्राणां विदुषामपि च बहूपकृतये स्यादिति दृढोऽस्माकं विश्वासः ।
अत्र, प्रथमं कारकाकारकभेदेन स्यादिविभक्तेद्वैविध्यं प्रकृत्य कारकत्व - विभक्तित्व - प्रत्ययत्व - क्रियात्व - कर्तृत्व कर्मत्वादि- निर्वाचनपूर्वकं द्वितीयार्थनिर्णयः कृतः । ततश्च क्रमशस्तृतीयादिस्याद्यर्थोऽपि तत्तद्विघायकसूत्राणि तद्वृत्तिग्रन्थञ्चाधिकृत्य, प्रथमं स्वमतं संस्थाप्य, आचार्योदाहृतेषु तेषु तेषु लक्ष्येषु तद्विभक्त्यर्थ प्रकाशनपूर्वकं वाक्यार्थबोधप्रकारं प्रद, अन्वपि शिष्टप्रयोगेषु तद्विभक्त्यर्थं विचार्य तत्रत्य वाक्यार्थबोधप्रकारो नैयायिकादिरीत्यापि विविच्य प्रदर्शितः । अन्ते च प्रथमाविभक्त्यर्थोऽपि यथायथं संक्षेपेण सरल्या पद्धत्या च सम्यक् प्रकाशितः इति प्रकृतग्रन्थपरिशीलनेनेव प्रकटीभविष्यति सर्वेषामिति तदर्थमधिकलेखेनालम् ।
अस्य च ग्रन्थस्य बहुदुरूहविषयकतया, साम्प्रतिकच्छात्राणामीदृशकठिनविषये रुचिविरहमपि मनसिकृत्वा यथाशक्ति सरलीकरणपरतया, स्वस्य वार्धककृतबाघसम्भावनया झटिति सम्पादितया च सम्भवन्तो द्विरुक्त- दुरुक्तत्वादिदोषाः, मानवमात्रसुलभा अन्ये च दृष्टिदोषादयो गुणग्रहणशीलैविद्वद्भिः स्वयमेव परिशोधनीयाः सूचनीयाश्च येनाग्रिमसंस्करणे तेषां परिमार्जनं सम्भाव्येत ।
अन्यस्यास्य स्वदृष्टिपातपूर्वकं प्रकाशनाय बहुत्वरितैरपि लेखकमहानुभावैः सुयोग्यमुद्रणालयानुपलम्भेन मुद्रितमिमं ग्रन्थं समवलोकयितुं नापारीति पुनर्दृष्टिविकलमेवेमं हित्वा नवत्यधिक चतुविशतिशतवीरवत्सरे, विंशत्यधिकविंशतिशतविक्रमवत्सरे च फाल्गुनकृष्णनवम्यां विजयमुहूर्त्ते राजस्थानान्तर्गतमरुधरास्थ ( राणावतों का ) खिमाडाग्रामे, ते निर्वाणपदमलमकुर्वन्निति यथास्थित एवायं भवतां पुरतः समुपस्थाप्यते । मुद्रणकार्यकराणां संस्कृतभाषानभिज्ञताशुद्धिबाहुल्यस्य सतः परिशोधने दृष्टिदोषवशात्, परिशोधितस्यापि मुद्रणसमये मात्रारेफादिकण्टकपातादिभिश्च कतिपया अशुद्धयः सत्योऽपि बहुस्थूलतया नार्थबोधविधातिका इति तच्छुद्धिपत्रमिहन संयोजितमिति तच्छोधनभारोऽपि पाठकेष्वेवायत्त इति सविनयं विज्ञाप्य विरम्यते । इति शम्
स्थानम् - श्रीजैनसंघन्याती नोरा जैन उपाश्रय, रानीगाम
राजस्थान (मारवाड़) कार्तिक शुक्ला पञ्चमी वीर सं० २४९२, विक्र० सं० २०२२
ग्रन्थकर्तृ-प्रशिष्यः आचार्यश्री विजयसुशीलचरि