________________
गच्छेऽस्मिंश्च परम्परागतमहो वशद्यलीलालये, श्रद्धाचारचिता कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासनशिरोहीरेण धीरेण च, भूपालाऽकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥७॥ मोहेलापतिपाटने पटुमते सद्धर्मसेनाकरे, श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽथिना सूरिणा । श्रीदेवेन च सूरिणा विवधतास्फाति परां बिभ्रता, श्रीसिंहेन च पापनागहरिणा श्रीसूरिणोल्लासिते ।।८।। पृथ्वीपादप्रचारतो विदधतो ध्वस्तान्धकारां वरां, निर्मातुः शमसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य च, साधोस्तारकपस्य वृद्धिविजयाऽभिस्यस्य वै सद्गुरोः ॥९॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो, भूपालावलिमौलिलालितपदाम्भो जो जनानन्ददः । उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुरुद्वोढाऽऽगमयोगमुच्चविधिना प्रस्थानपञ्चत्परः ॥१०॥ स्वं चाऽस्वं समयं सदा सहृदयं विद्वॉश्च दिव्याकृति, नित्यधर्मकथाविधी विलसता माधुर्यमाबिभ्रता । गम्भीरध्वनिना घनाघनरवं हास्यास्पदं कुर्वता, तारेणाऽखिलभन्यकेकिनिकराऽनन्दं ददानः सना ॥११॥ तीर्थानामवने समुद्धतिकृती लीनान्तरालः सदा. शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः । सम्राट श्रीजिनशासनस्य वसतिः प्रौढप्रतापालयो, राराजीतितरां जमद्गुरुरयं श्रानेमिसूरीश्वरः ॥१२
[ वसंततिलकावृत्तानि ] ईडे सुदर्शनघरं पुरुषोत्तम तं, मैत्रीयुतं समदयश्रियमादधानम् । सन्नन्दनं सुमनसामनुरागचङ्ग, विज्ञानतामरसतामरसाकरं च ॥१३॥ भव्यालिपडूविकलं जडतातिगं च, नित्यं पुनानमखिलं किल साधुपद्मम् । सन्दशिता-ऽमृतपथं वरदेशनातो, लावण्यमन्दिरमुदारमनोऽभिरामम् ॥१४॥