________________
साधुस्वकस्तुररवस्तुतकीर्तिजालं, भक्त्या नरेन्द्रनतपादकजं शिवाय । संसज्जयन्तमथ दक्ष-सुशीलमाशु, कल्याण केलिमथ केवल केलिधाम ॥१५॥ नित्यं जिनं वरधिया किल लोकमानं, सच्चन्दनं जनमनोभवतापहारम् । सन्मङ्गलं विवुधगीतगुणावली च, नित्यं सदाचरणकान्तहितं मताशम् ॥३६।।
[अनुष्टुप] साधुकश्चनवत् कान्तं, सदातपोदयाञ्चितम् ।
विनोदजं सदामोदं, वितन्वानं महाशयम् ॥१७॥
[ उपजातिः] चञ्चन्महानन्द-विवर्धमानं, दिव्यं विकाशं च दधानमाशु । जितेन्द्रपाठं सुमनाहरं चा-मोदं ददानं मलयप्रकाशम् ।।१८।।
[पञ्चभिः कुलकम् ]
[ वसन्ततिलका-छन्दः] श्रीरत्नशेखर-प्रभोज्वलशील-शोभ, जनेन्द्रशासनधुरन्धरदेवभद्रम् । श्रीचन्द्रशेखरसखं शिवशङ्करं च, विश्वा-ऽभयाय विमलाऽभयशेखराभम् ।।१९।। स्थाद्वादनादसदनं जिनं जयन्तं, जीमूतर्गाजतवचोऽङ्गिमयूरमोदम । सद्वोधबोधनविधौ बृहतीपति त, सूरीश्वरं गुरुवरं च नमामि नेमिम् ॥२०॥
[ युग्मम् } [ अनुष्टुमः] राजस्थाने मरी देशे, शिवगंजपुरे वरे । चातुर्मासीस्थितेनैव, विज्ञलावण्यसूरिणा ॥२१॥ श्रीस्याद्यर्थप्रकाशाख्यो, ग्रन्थोऽयं रचितो मुदा । विज्ञप्त्यात्मविनेयस्य, दक्षसूरिवरस्य च ।।२२।। ग्रह-चन्द्र-नभ-श्चक्षु-मितेऽब्दे वैक्रमे किल । पाठकानां मुदे भूयात् पठ्यमानो हि भूतले ॥२३)। चन्द्रप्रभाकरी यावद्, यावच्च कनकाचलः । तावत प्रकाश्यमानोऽयं, प्रकाशो जयताद् भुवि ॥२४॥