________________
।। ॐ हीं अहे नमः॥ श्रीस्याद्यर्थप्रकाशप्रशास्तः
[ उपजातिः] श्रीनाभिजातं शुभशान्तिनाथ, सुभव्यराजीनयनाऽमृतं च । प्रकाशिपं श्रीशुभवर्धमानं नमामि नित्यं जिनराजराजम् ॥१॥
[शार्दूलविक्रीडितानि ] लोकाऽलोकविलोकिनो जिनपतेद्रीकृतांहस्ततेः,
सोल्लासरमराधिपः कृतनतेः सूर्यातिगाङ्गद्य तेः । गीरीशस्यचनश्च शासनपतेः सिद्धार्थसत्सन्ततेः,
पद्रं धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥२॥ तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूडामणिनिग्रन्थाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः । कोटीशः किल सूरिमन्त्रकलनात् कोटीति नाम्नोज्वलं, गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनुव्यधात् ।।३।। चन्दं चन्द्रकलाकलापधवलं भूयोयशोमालितं, गच्छं चानु चकार चारुचरणः श्री चन्द्रसूरीश्वरः । तत्रैवानु च सूरिराट् शमनिधिः सामन्तभद्राभिधो, ध्यातेने वनवासिगच्छममलं लीनं गुणानां गणे ॥४।। सन्तापापहरं समाश्रितनृणां शाखावलीलालितं, दीक्षादानशुभास्पद सुचरणाबद्ध विशालोन्नतम् । श्रेयांस वटगच्छमच्छमतुलं सत्पुण्यपण्यापण,माचार्याधिप आततान तदन श्री सर्वदेवाभिधः ।।५।। भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्कर, सान्वर्थ च 'महातपा' इतिपदं, यस्मै ददे सम्मदात् । पुण्यात्मा विदधे ततः स च जगच्चन्द्राभिधः सूरिराट्, षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥६॥