________________
१८
याद्यर्थ प्रकाशे
तदपि न समीचीनम्, तत्रापि प्रतिवाक्यं भवतीत्यादिक्रियापदस्याहृत्यैवान्वयबोधात् । 'एकतिवाक्यम्' 'आख्यातं सविशेषणं वाक्यम्' इत्यादि वार्तिकभाष्यादिवचनंः क्रियापदं विना वाक्यत्वस्यैवाभावात् । यच्च त्याद्यन्तपदससु - च्चयः, स्याद्यन्तपदसमुच्चयः त्याद्यन्तस्याद्यन्तोभयविवपदसमुच्चयश्च वाक्यमिति वाक्यस्य त्रैविध्यमुक्तम्, तदपि न सम्यक् प्रकृतवार्तिकभाष्यादिप्रामाण्येनानुभवाच्च केवलस्याद्यन्तपदसमुच्चयस्य वाक्यत्वे मानाभावात् । कोशेऽपि "सुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता" इति वाक्यलक्षण स्याद्यन्तत्याद्यन्तो भव समुच्चयस्य कारकान्वितक्रियाया वा वाक्यत्वकथनात् । किञ्च कस्यचित् कस्मि
चित्कार्य विनियोगार्थमेवामन्त्रणं भवति, न केवलं स्मरणमात्रार्थम् । उक्तञ्च वाक्यपदीये हरिणा- सिद्धस्याभिमुखीभावमानं सम्बोधनं विदुः । प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते " इति । अयमाशयः, सम्बोधनं हि. सिद्धस्य देवदत्तादेराभिमुख्यसम्पादनं, तञ्च कस्मैचित्प्रयोजनायेवेति निर्विवादम् तदेव प्रयोजनमुत्तरार्धेनोक्तम्, प्राप्ताभिमुख्यो हीत्यादिना । अभिमुखीभूत एव पदार्थ : क्रियासु प्रवृत्तिनिवृत्तिरूपासु वित्तिनियुज्यते प्रवर्त्यते । तथा च प्रवर्तनाविषयक्रियायामेव सम्बोधनपदस्याव्यय इति - 'सम्बो धनपदं यच्च तत्क्रियायां विशेषणमिति पूर्वोक्तकारिकासमुपोद्वलिता विज्ञेया । किमधिकप्रपञ्चेनेतिः शिवम् ||
इति प्रथमार्थप्रकाशः ॥