________________
युग्मम्
विचार्य शास्त्राणि बहूनि सम्यक् स्याद्यर्थसारं तत आकलय्य,
स्वसम्प्रदायानुमतं तमर्थं
समग्रहीद् बुद्धिबलानुरूपम् ||१||
श्रीमत्तपोगच्छ्गणप्रतिष्ठ
श्रीने मिसूरीश्वर पट्टशिष्यः ॥
लावण्य सूरिविजयादिनामा,
समार्पयत् सत्सु विचारणाय । २॥
इति श्रीमत्तपोगणगगनाङ्गणगगन मणि- सूरिचक्रचक्रवर्तिसर्वतन्त्र स्वतन्त्र-श्रीविजयने मिसूरीश्वर - पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद - कविरत्ने तिपदालङ्कृतेन
श्रीविजय लावण्यसूरिणा प्रणीतः स्याद्यर्थप्रकाशः परिपूर्णः ॥